2023-08-31 13:24:34 by Lakshmainarayana achar
This page has been fully proofread twice.
कुसुमैरुपस्थितामपश्यत् । तस्याः पुरो रहसि सकरुणं रुरोद । तयाप्यश्रुमुख्या बहुप्रकारमनुनीय रुदितकारणं पृष्टा त्रपमाणापि
कार्यगौरवात्कथंचिद्ब्रवीत् - 'अम्ब, किं ब्रवीमि । दौर्भाग्यं नाम
जीवन्मरणमेवाङ्गनानाम्, विशेषतश्च कुलवधूनाम् । तस्याहमस्म्यु-
दाहरणभूता । मातृप्रमुखोऽपि ज्ञातिवर्गो मामवज्ञयैव पश्यति ।
तेन सुदृष्टां मां कुरु । न चेत्त्यजेयमद्यैव निष्प्रयोजनान्प्राणान् ।
आविरामाच्च मे रहस्यं नाश्राव्यम्' इति पादयोः पपात । सैनामुत्था-
प्योद्बाष्पोवाच - 'वत्से, माऽध्यवस्यः साहसम् । इयमस्मि त्वन्नि-
देशवर्तिनी । यावति ममोपयोगस्तव तावति भवाम्यनन्याधीना ।
यद्येवासि निर्विण्णा तपश्चर त्वं मदधिष्ठिता पारलौकिकाय कल्या-
णाय । नन्वयमुदर्क: प्राक्तनस्य दुष्कृतस्य, यदनेनाकारेणेदृशेन
शीलेन जात्या चैवंभूतया समनुगता सती अकस्मादेव भर्तृद्वेष्यतां
गतासि । यदि कश्चिदस्त्युपायः पतिद्रोहप्रतिक्रियायै दर्शयामुम्,
मतिर्हि ते पटीयसी' इति । अथासौ कथंचित्क्षणमधोमुखी ध्यात्वा
दीर्घोष्णश्वासपूर्वमवोचत् – 'भगवति, पतिरेव दैवतं वनितानाम्,
विशेषतः कुलजानाम् । अतस्तच्छुश्रूषणाभ्युपायहेतुभूतं किंचिदा-
चरणीयम् । अस्त्यस्मत्प्रातिवेश्यो वणिगभिजनेन विभवेन राजा-
पदचन्द्रिका ।
वृद्धसंन्यासिन्या रुदितकारणं रोदननिदानम् । त्रपमाणा लज्जावती । मरणमेवाङ्गनानां स्त्रीणाम् । त्यजेयम् । त्यजामीत्यर्थः । निष्प्रयोजनानकिंचित्करान् । रहस्यं गोप्यम् । सा वृद्धसंन्यासिनी । एनां निम्बवतीम् । उद्बाष्पोद्गतबाष्पा । साहसमुद्योगः । निदेशं आज्ञा । यावति तावतीति । प्रयोजन इत्यर्थः । परलोके
भवं पारलौकिकम् । 'उदर्कः फलमुत्तरम्' इत्यमरः । आकारः शरीराकृतिः । शीलं स्वभावः । जात्या विशिष्टकुलया । यदीति । पटीयस्यतिशयेन पटुः । असौ निम्बवती । अस्तीति । प्रतिवेश्यः प्रतिवेशवर्ती । वणिग्वाणिज्यकर्ता । अभि-
भूषणा ।
संन्यासिनीम् । अनुनीय दुःखापनोदनं कृत्वा । सैव वृद्धा वदति यद्येवमिति । उदर्क उत्तरं फलम् । 'उदर्कः फलमुत्तरम्' इत्यमरः । तन्मातृप्रार्थनमित्यभिधाय । नाम शब्दग्रहेत्यर्थे । प्रतिवेशे समीपगृहे भवः प्रातिवेश्यः । वाणिज्यं वणिग्व्या-
लघुदीपिका ।
'उदर्कः फलमुत्तरम्' । 'वाणिज्यं व्यवहारः स्यात्' । दासी । 'चेटी चिरण्टी