2023-09-01 12:46:41 by Lakshmainarayana achar
This page has been fully proofread twice.
व्यवधाय क्षणमशेत । परितुष्टश्च विधिवदुपयम्य कन्यां निन्ये ।
नीत्वैतदनपेक्षः कामपि गणिकामवरोधमकरोत् । तामप्यसौ
प्रियसखीमिवोपाचरत् । पतिं च दैवतमिव मुक्ततन्द्रा पर्यचरत् ।
गृहकार्याणि चाहीनमन्वतिष्ठत् । परिजनं च दाक्षिण्यनिधिरा-
त्माधीनमकरोत् । तद्गुणवशीकृतश्च भर्ता सर्वमेव कुटुम्बं तदा -
यत्तमेव कृत्वा तदेकाधीनजीवितशरीरत्रिवर्गं निर्विवेश । तद्ब्र-
वीमि — 'गृहिण: प्रियहिताय दारगुणाः' इति ।
ततस्तेनानुयुक्तो निम्बवतीवृत्तमाख्यातवान्– 'अस्ति सौरा-
ष्ट्रेषु वलभी नाम नगरी । तस्यां गृहगुप्तनाम्नो गुह्यकेन्द्रतुल्यवि-
भवस्य नाविकपतेर्दुहिता रत्नवती नाम । तां किल मधुमत्याः
समुपागम्य बलभद्रो नाम सार्थवाहपुत्रः पर्यणैषीत् । तयापि
नववध्वा रहसि रभसविघ्नितसुरतसुखो झटिति द्वेषमल्पेतरं
बबन्ध । न तां पुनर्द्रष्टुमिष्टवान् । तद्गृहागमनमपि सुहृद्वाक्य-
शतातिवर्ती लज्जया परिजहार । तां च दुर्भगां तदाप्रभृत्येव 'नेयं
रत्नवती, निम्बवती चेयम्' इति स्वजनः [^१]परजनश्च परिबभूव ।
गते च कस्मिंश्चित्कालान्तरे सा त्वनुतप्यमाना 'का मे गति: '
इति विमृशन्ती कामपि [^२]वृद्धप्रव्राजिकां मातृस्थानीयां देवशेष-
पदचन्द्रिका ।
जीर्णवस्त्रम् । अशेत निद्रां चकार । असौ कन्या तां गणिकाम् । मुक्ततन्द्रा त्यक्तालस्या । अहीनमत्यर्थम् । दाक्षिण्यनिधिर्दक्षिणस्य भावस्तथा । तदायत्तं तदधीनम् । त्रिवर्गं धर्मार्थकामायत्तम् । अस्तीति । नाविका नौभिर्जीवन्तीति तथा । मधुमत्या नगर्याः । पर्यणैषीत्परिणयनमकरोत् । अल्पेतरम् । बह्वित्यर्थः । सुहृद्वाक्यं मित्रवाक्यम् । दुर्भगां दुरदृष्टाम् । सा निम्बवती । अनुतप्य-
मानानुतापं प्राप्तवती । देवशेषकुसुमैर्निर्माल्यपुष्पैः । तयापि वृद्धपरिव्राजिकया
भूषणा ।
परावृत्तम् । त्रिवर्गम् । 'त्रिवर्गो धर्मकामार्थैः' इत्यमरः । वृद्धपरिव्रा-जिकां वृद्ध-
लघुदीपिका ।
मुज्ज्वलितम् । त्रिवर्गं धर्मार्थकामान् । वृद्धपरिव्राजिकां वृद्धसंन्यासिनीम् ।
[^१]G. 'परिजनस्य'.
[^२]G. 'परिव्राजिकाम्'.