2023-08-14 17:17:24 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
त्रिजातकावचूर्णितेन सुरभिशीतलाभ्यां च कालशेयकाञ्जिकाभ्यां
शेषमन्नमभोजयत् । सशेष एवान्धस्यसावतृप्यत् । अयाचत च
पानीयम् । अथ नवभृङ्गारसंभृतगुरुधूपधूपितमभिनवपाटलाकु-
सुमवासितमुत्फुल्लोत्पलप्रतिसौरभं वारि नालीधारात्मना पातयां-
बभूव । सोऽपि मुखोपहितशरावेण हिमशिशिरकणकरालिता-
रुणायमानाक्षिपक्ष्मा धारारवाभिनन्दितश्रवणः स्पर्शसुखोद्भिन्न-
रोमाञ्चकर्कशकपोलः परिमलप्रवालोत्पीडफुल्लघ्राणरन्ध्रो माधुर्य-
प्रकर्षा [^१]वर्जितरसनेन्द्रियस्तदच्छं पानीयमाकण्ठं पपौ । शिरःकम्पसंज्ञावारिता च पुनरपरकरकेणाचमनमदत्त कन्या । वृद्धया तु तदुच्छिष्टमपोह्य हरितगोमयोपलिप्ते कुट्टिमे स्वमेवोत्तरीयकर्पटं
पदचन्द्रिका ।
मात्रा' इति मेदिनी । सूपं वरान्नम् । उपदंशं च शाकादि । त्रिजातकं त्वक्तैलं त्रिकटु वा । अवचूर्णितेन विलोडितेन । 'चूर्ण विलोडने पेषे' इति भागुरिः । कालशेयं तक्रम् । 'दण्डाहतं कालशेयमरिष्टमपि गोरसः' इत्यमरः । काञ्जिकम् ।
'आरनालकसौवीरकुल्माषाभिषुतानि च ।अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके' इत्यमरः । अन्धस्योदने । 'भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः' इत्यमरः । पानीयं जलम् । अथेति । 'भृङ्गारः कनकालुका' इत्यमरः । धारात्मना । अविरलधारयेत्यर्थः । हरितगोमयम् । 'गोश्च पुरीषे' (४।३।१४५) इति मयट् । कर्पटं
भूषणा ।
हार समीपे परिवेषितवती । उपदंशः । 'उपदंशस्तु भक्षणम्' । त्रिजातकं त्वक्तैलम् । कालशेयम् । 'दण्डाहतं कालशेयमरिष्टमपि गोरसः' इत्यमरः । कलशिर्घटस्तत्र भवम् । 'दृतिकुक्षिकलशि -(४।३।५६) इति ढञ् । काञ्जिकम् । 'आरनालकसौवीरकुल्माषाभिषुतानि च ।
अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके इत्यमरः ।
अन्धस्योदने । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' इत्यमरः । हिमशिशिरेतीन्द्रियतृप्तिरुक्ता । उक्तं च माघेऽपि–'क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ । स्वादुनि प्रणुदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः ॥" इति । माधुर्यप्रकर्षेणावर्तितं
लघुदीपिका ।
स्यात्' । त्रिजातकं यत्तैलं तत्त्रिकटुकम् । अवचूर्णितेन विलोडितेन । 'चूर्ण विलेपने पेषे' इति भागुरिः । कालशेयम् । 'दण्डाहतं कालशेयमरिष्टमपि गोरसः' । काञ्जिकम् । 'आरनालकसौवीरकुल्माषाभिषुतानि च । अवन्तिसोमधान्याम्लकु-
ञ्जलानि च काञ्जिके ॥' अन्धसि । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' । कवलित-
[^१]G. 'वर्तित'.