This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ षष्ठः
 
त्रिजातकावचूर्णितेन सुरभिशीतलाभ्यां च कालशेयकाञ्जिकाभ्यां
शेषमन्नमभोजयत् । सशेष एवान्धस्यसावतृप्यत् । अयाचत च
पानीयम् । अथ नवभृङ्गारसंभृतगुरुधूपधूपितमभिनवपाटलाकु-
सुमवासितमुत्फुल्लोत्पलप्रतिसौरभं वारि नालीधारात्मना पातयां-
बभूव । सोऽपि मुखोपहितशरावेण हिमशिशिरकणकरालिता-
रुणायमानाक्षिपक्ष्मा धारावाभिनन्दितश्रवणः स्पर्शसुखोद्भिन्न-
रोमाञ्चकर्कशकपोलः परिमलप्रवालोत्पीडफुल्लघ्राणरन्ध्रो माधुर्य-
प्रकर्षावर्जितरसनेन्द्रियस्तदच्छं पानीयमाकण्ठं पपौ । शिरःकम्प-
संज्ञावारिता च पुनरपरकरकेणाचमनमदत्त कन्या । वृद्धया तु
तदुच्छिष्टमपोह्य हरितगोमयोपलिप्ते कुट्टिमे स्वमेवोत्तरीयकर्पटं
पदचन्द्रिका ।
 
मात्रा' इति मेदिनी । सूपं वरान्नम् । उपदंशं च शाकादि । त्रिजातकं वक्तैलं
त्रिकटु वा । अवचूर्णितेन विलोडितेन । 'चूर्ण बिलोडने पेषे' इति भागुरिः ।
कालशेयं तक्रम् । 'दण्डाहतं कालशेयमरिष्टमपि गोरसः' इत्यमरः । काजिकम् ।
'आरनालकसौवीरकुल्माषाभिषुतानि च । अवन्तिसोमधान्याम्लकुञ्जलानि च
काजिके' इत्यमरः । अन्धस्योदने । 'भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः'
इत्यमरः । पानीयं जलम् । अथेति । 'भृङ्गारः कनकालुका' इत्यमरः । धारात्मना ।
अविरलधारयेत्यर्थः । हरितगोमयम् । 'गोश्च पुरीषे' (४।३।१४५) इति मयट् ।
कर्पटं
 

 
२२६
 
BRIS
 
भूषणा ।
 
हार समीपे परिवेषितवती । उपदंशः । 'उपदंशस्तु भक्षणम्' । त्रिजातकं वक्तै-
लम् । कालशेयम् । 'दण्डाहतं कालशेयमरिष्टमपि गोरसः' इत्यमरः । कलशिर्घटस्तत्र
भवम् । 'दृतिकुक्षिकलशि - १ (४१३।५६) इति ढञ् । काजिकम् । 'आरनालकसौवीर-
कुल्माषाभिषुतानि च । अवन्तिसोमघान्याम्लकुञ्जलानि च काञ्जिके इत्यमरः ।
अन्धस्योदने । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' इत्यमरः । हिमशिशिरेतीन्द्रियतृप्ति-
रुक्ता । उक्तं च माघेऽपि–'क्रान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ । खा-
दुनि प्रणुदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः ॥" इति । माधुर्यप्रकर्षेणावर्तितं
लघुदीपिका ।
 
स्यात्' । त्रिजातकं यत्तैलं तत्रिकटुकम् । अवचूर्णितेन विलोडितेन । 'चूर्ण बिले-
पने पेषे' इति भागुरिः । कालशेयम् । 'दण्डाहतं कालशेयमरिष्टमपि गोरसः' ।
काजिकम् । 'आरनालकसौवीरकुल्माषाभिषुतानि च । अवन्तिसोमधान्याम्लकु-
जलानि च काजिके ॥' अन्धसि । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' । कवलित-
पाठा०-१ 'वर्वित'.