2023-09-01 12:46:56 by Lakshmainarayana achar

This page has been fully proofread twice.

नायान्तःसाराण्यम्भसा समभ्युक्ष्य [^१]प्रशमिताग्नीनि कृष्णाङ्गारी-
कृत्य तदर्थिभ्यः प्राहिणोत्- 'एभिर्लब्धाः काकिणीर्दत्त्वा शाकं
घृतं दधि तैलमामलकं चिञ्चाफलं च यथालाभमानय' इति ।
तथानुष्ठिते च तया द्वित्रानुपदंशानुपपाद्य तदन्नमण्डमार्द्रवालुको-
पहितनवशरावगतमतिमृदुना तालवृन्तानिलेन शीतलीकृत्य सलवणसंभारं दत्ताङ्गारधूपवासं च संपाद्य, तदप्यामलकं श्लक्ष्णपिष्टमुत्पलगन्धि कृत्वा धात्रीमुखेन स्नानाय तमचोदयत् । तया च स्नानशुद्धया दत्ततैलामलकः क्रमेण सस्नौ । स्नातः सिक्तमृष्टे कुट्टिमे फलकमारुह्य पाण्डुहरितस्य त्रिभागशेषलूनस्याङ्गणकदलीपलाशस्योपरि दत्तशरावद्वयमार्द्र- [^२]मभिमृशन्नतिष्ठत् । सा तु तां पेयामेवाग्रे समुपाहरत् । पीत्वा चापनीताध्वक्लमः प्रहृष्टः प्रक्लिन्नसकलगात्रः स्थितोऽभूत् । ततस्तस्य शाल्योदनस्य दर्वीद्वयं दत्त्वा सर्पिर्मात्रां सूपमुपदशं चोपजहार । इमं च दध्ना च
 
पदचन्द्रिका ।
 
त्यर्थः । अन्तःसाराण्युपर्येव दग्धानि । एभिरङ्गारैः ।द्वित्रान्कतिपयान् । उपदंशाञ्शाकादीन् । उपपाद्य संपाद्य । तदन्नमण्डं पूर्वोक्तान्नमण्डम् । अचोदयत् । प्रेरयामासेत्यर्थः । सस्नौ । स्नानं चकारेत्यर्थः । सिक्तमृष्ट आदौ सिक्तः पश्चान्मृष्टः ।
कुट्टिमं बद्धभूमिकम् । अङ्गणे या कदली रम्भा तस्याः पलाशं पत्रं तस्योपरि । सा त्विति । पेया ससिक्था । 'मण्डोऽसिक्थ: ससिक्था पेया, परिसिक्था यवागूः, घनसिक्था विलेपी, परिस्रुतस्त्वोदनो भक्तः, इति वाग्भटोक्तेः । ओदनस्य दर्वीद्वयं दत्त्वा । दर्वीद्वयमात्रमोदनं दत्त्वेत्यर्थः । 'दर्विः कम्बिः खजाका च'
इत्यमरः । सर्पिर्मात्राम् । अल्पघृतमिति यावत् । मात्रा । 'अक्षरावयवे स्वल्पे
 
भूषणा ।
 
समभ्युक्ष्यार्द्रीकृत्य । निरुष्णाङ्गारीकृत्येति । यदत्र वक्तव्यं तदुक्तं वासवदत्तादर्पणे । कुट्टिमे । 'कुट्टिमोऽस्त्री निबद्धा भूः' ।त्रिभागशेषेति । त्रिषु भागेषु यः शेषोऽग्रिमस्तत्र छिन्नस्येत्यर्थः । पलाशस्य पत्रस्य । अद्भिरार्द्रं दत्तशरावद्वयं भृशन्स्पृशन् । पेयामिति । पेयेति मण्डस्य नाम । सर्पिर्मात्रां घृतलेशम् । उपज-
 
लघुदीपिका ।
 
दिवि रोदनम्' ( ? ) इति वैजयन्ती । कुट्टिमं बद्धभूमिकम् । विदंशश्चोपदंशः
 
[^१]G. 'प्रशमिताग्नीन्निरुष्णाङ्गारीकृत्य'.
[^२]G. 'मार्द्रं मृशन्'.