This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २२५
नायान्तः साराण्यम्भसा समभ्युक्ष्य प्रेशमितानीनि कृष्णाङ्गारी-
कृत्य तदार्थभ्यः प्राहिणोत्- 'एभिलब्धाः काकिणीदत्त्वा शाकं
घृतं दधि तैलमामलकं चिवाफलं च यथालाभमानय' इति ।
तथानुष्ठिते च तया द्वित्रानुपदंशानुपपाद्य तदन्नमण्डमार्द्रवालुको-
पहितनवशरावगतमतिमृदुना तालवृन्तानिलेन शीतलीकृत्य सलवण-
संभारं दत्ताङ्गारधूपवासं च संपाद्य, तदप्यामलकं लक्ष्णपिष्ट-
मुत्पलगन्धि कृत्वा धात्रीमुखेन स्नानाय तमचोदयत् । तया च
स्नानशुद्धया दत्ततैलामलकः क्रमेण सनौ । स्नातः सितमृष्टे
कुट्टिमे फलकमारुह्य पाण्डुहरितस्य त्रिभागशेषलूनस्याङ्गणकदली-
पलाशस्योपरि दत्तशरावद्वयमार्द्रमैभिमृशन्नतिष्ठत् । सा तु तां
पेयामेवाग्रे समुपाहरत् । पीत्वा चापनीताध्वकुमः प्रहृष्टः प्रक्किन्न-
सकलगात्रः स्थितोऽभूत् । ततस्तस्य शाल्योदनस्य दर्वीद्वयं
दत्त्वा सर्पिर्मात्रां सूपमुपदशं चोपजहार । इमं च दना च
 
पदचन्द्रिका ।
 
त्यर्थः । अन्तःसाराण्युपर्येव दग्धानि । एभिरशारैः । द्वित्रान्कतिपयान् । उप-
शाशाकादीन् । उपपाद्य संपाद्य । तदन्नमण्डं पूर्वोत्तान्त्रमण्डम् । अचोदयत् ।
प्रेरयामासेत्यर्थः । सस्त्रौ । स्नानं चकारेत्यर्थः । सिक्तमृष्ट आदौ सिक्तः पश्चान्मृष्टः ।
कुट्टिमं बद्धभूमिकम् । अङ्गणे या कदली रम्भा तस्याः पलाशं पत्रं तस्योपरि ।
साविति । पेया ससिक्था । 'मण्डोऽसिक्थ: ससिक्था पेया, परिसिक्था
यवागूः, घनसिक्था विलेपी, परिस्रुतस्त्वोदनो भक्तः, इति वाग्भटोक्तेः । ओद-
नस्य दवद्वयं दत्त्वा । दवद्वयमात्रमोदनं दत्त्वेत्यर्थः । 'दर्विः कम्बिः खजाका च
इत्यमरः । सर्पिर्मात्राम् । अल्पघृतमिति यावत् । मात्रा । 'अक्षरावयवे स्वल्पे
 
भूषणा ।
 
1
 
समभ्युक्ष्याद्रीकृत्य । निरुष्णाङ्गारीकृत्येति । यदत्र वक्तव्यं तदुक्तं वासवद-
तादर्पणे । कुट्टिमे । 'कुट्टिमोऽस्त्री निबद्धा भूः' । त्रिभागशेषेति । त्रिषु भागेषु
यः शेषोऽप्रिमस्तत्र छिन्नस्येत्यर्थः । पलाशस्य पत्रस्य । अद्भिरा दत्तशरावद्वयं
भृशन्स्पृशन् । पेयामिति । पेयेति मण्डस्य नाम । सर्पिर्मात्रां घृतलेशम् । उपज-
लघुदीपिका ।
 
दिवि रोदनम्' ( ? ) इति वैजयन्ती । कुट्टिमं बद्धभूमिकम् । विदंशचोपदंशः
पाठा० - १ 'प्रशमिताभीविरुष्णाङ्गारीकृत्य'. २ 'माई मृशन्'.