2023-09-01 12:47:02 by Lakshmainarayana achar

This page has been fully proofread twice.

काराः । तेभ्य इमान्दत्त्वा लब्धाभिः काकिणीभिः स्थिरतरा-
ण्यनत्यार्द्राणि नातिशुष्काणि काष्ठानि मितंपचां स्थालीमुभे
शरावे चाहर' इति । तथाकृते तया तांस्तण्डुला- [^१]ननतिनिम्नोत्तानविस्तीर्णकुक्षौ ककुभोलूखले लोहपत्रवेष्टितमुखेन समशरीरेण विभाव्यमानमध्यतानवेन व्यायतेन गुरुणा खादिरेण मुसलेन च [^२]तुरललितक्षेपणोत्क्षेपणाया- सितभुजमसकृदङ्गुलीभिरुद्धृत्योद्धृत्यावहत्य शूर्पशोधितकणकिंशारुकांस्तण्डुलानसकृदद्भिः प्रक्षाल्य क्वथित-
पञ्चगुणे जले दत्तचुल्लीपूजा प्राक्षिपत् । प्रश्लथावयवेषु प्रस्फुरत्सु
तण्डुलेषु मुकुलावस्थामतिवर्तमानेषु संक्षिप्यानलमुपहितमुखपिधा-
नया स्थाल्यान्नमण्डमगालयत् । दर्व्या [^३]चावघट्य मात्रया [^४]परिवर्त्य समपक्वेषु सिक्थेषु तां स्थालीमधोमुखीमवातिष्ठिपत् । इन्ध-
 
पदचन्द्रिका ।
 
णीभिः । कपर्दिकाभिः । मितंपचाम् । 'मितनखे च' ( ३।२।३४ ) इति खश् । शरावे मृत्पात्रे । 'शरावो वर्धमानकः' इत्यमरः । विस्तीर्णकुक्षौ बृहदुदरे । ककुभो वृक्षः। 'ककुभो भूरुहे वीणाप्रसेवे' इति महीपः । काष्ठोलूखलमिति भावः । विभाव्यमानं
संभाव्यमानम् । मध्यतानवं मध्ये कृशत्वम् । तनोर्भावस्तानवम् । व्यायतेन दीर्घेण । गुरुणा स्थूलेन । क्षेपणमधःपातनम् । उत्क्षेपणमूर्ध्वीकरणम् । असकृद्वारंवारम् । मुकुलावस्थां कलिकावस्थाम् । अन्नमण्डं भक्तपानीयम् । अवघट्य अवगाह्ये-
 
भूषणा ।
 
खण्डैः । 'पृथग्विनानाना-' (२।३।३२) इति तृतीया । काकिणीभिः । 'वराटकानां दशकद्वयं स्यात्सा काकिणी' इति भास्कराचार्यः । स्थिरतराणि सारवन्ति । मितंपचाम् । 'मितनखे च' ( ३।२।३४ ) इति खश् । शरावो वर्धमानकः । 'शरावो वर्धमानक:' इत्यमरः । नातिनम्रोत्तानविस्तीर्णः कुक्षिर्यस्येत्यर्थः । किंशारुम् । 'किंशारुः सस्यशूकं स्यात्' इत्यमरः । ककुभोलूखले । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । क्वथितपञ्चगुणम् । क्वथितं च तत्पञ्चगुणं चेत्यर्थः । मात्रया स्वल्पकालेन । परावृत्य पुनरवघट्येत्यर्थः ।
 
लघुदीपिका ।
 
इति हलायुधः । काकिणी । 'काकिणी हर्मणीवार्ता फालस्थः परिमाणकम् ।' मितंपचाम् । 'मितनखे च' ( ३।२।३४ ) इति खश् । 'शरावोऽस्त्री वर्धमानं' इति वैजयन्ती । 'अर्जुनं ककुभं प्राहुः' । 'क्लीबे लोहपत्रं च लये (?) लौहे तु मुसलाग्रगे' । 'सिर्कदी
 
[^१]G. 'नातिनिम्न'.
[^२]G. 'ललिवोत्क्षेपणावक्षेपण'.
[^३]G. 'चावग्राह्य'.
[^४]G. 'परावृत्य'.