2023-08-14 16:46:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२२४
 
दशकुमारचरितम् ।
 
[ षष्ठः
 
काराः । तेभ्य इमान्दत्त्वा लब्धाभिः काकिणीभिः स्थिरतरा-

ण्यनत्यार्द्राणि नातिशुष्काणि काष्ठानि मितंपचां स्थालीमुभे

शरावे चाहर' इति । तथाकृते तया तांस्तण्डुलाने- [^१]ननतिनिम्नोत्तान-
विस्तीर्णकुक्षौ ककुभोलूखले लोहपत्रवेष्टितमुखेन समशरीरेण
विभाव्यमानमध्यतानवेन व्यायतेन गुरुणा खादिरेण मुसलेन च
[^२]तुरलेलितक्षेपणोत्क्षेपणाया- सितभुजमसकृदङ्गुलीभिरुद्धृत्योद्धृत्यावहत्य
 
कथित-
शूर्पशोधितकणकिंशारुकांस्तण्डुलानसकृद॒द्भिः प्रक्षाल्य
क्वथित-
पञ्चगुणे जले दत्तचुल्लीपूजा प्राक्षिपत् । प्रश्लथावयवेषु प्रस्फुरत्सु

तण्डुलेषु मुकुलावस्थामतिवर्तमानेषु संक्षिप्यानलमुपहितमुखपिधा-

नया स्थाल्यान्नमण्डमगालयत् । दुर्व्या चाँ[^३]चावघट्य मात्रया [^४]परि-
वर्त्य समपकेक्वेषु सिक्थेषु तां स्थालीमधोमुखीमवातिष्ठिपत् । इन्ध-

 
पदचन्द्रिका ।
 

 
णीभिः । कपर्दिकाभिः । मितंपचाम् । 'मितनखे च' ( ३३४ ) इति खश् । शरावे
मृत्पात्रे । 'शरावो वर्धमानकः' इत्यमरः । विस्तीर्णकुक्षौ बृहदुदरे । ककुभो वृक्षः
'ककुभो भूरुहे वीणाप्रसेवे' इति महीपः । काष्ठोलूखलमिति भावः । विभाव्यमानं

संभाव्यमानम् । मध्यतानवं मध्ये कृशत्वम् । तनोर्भावस्वातानवम् । व्यायतेन दीर्घेण ।
गुरुणा स्थूलेन । क्षेपणमधःपातनम् । उत्क्षेपणमूवींर्ध्वीकरणम् । असकृद्वारंवारम् ।
मुकुलावस्थां कलिकावस्थाम् । अन्नमण्डं भक्तपानीयम् । अवघट्य अवगाह्ये-

 
भूषणा ।
 

 
खण्डैः । 'पृथग्विनानाना-' (२।३।३२) इति तृतीया । काकिणीभिः । 'वराटकानां
दशकद्वयं स्यात्सा काकिणी' इति भास्कराचार्यः । स्थिरतराणि सारवन्ति । मितंपचाम् ।
'मितनखे च' ( ३३४ ) इति खश् । शरावो वर्धमानकः । 'शरावो वर्धमानक: *
' इत्यमरः । नातिनम्रोत्तानविस्तीर्णः कुक्षिर्यस्यैयेत्यर्थः । किंशारुम् । 'किंशारुः सस्यशूकं
स्यात्' इत्यमरः । ककुभोलुलूखले । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । क्वथितपञ्चगुणम् ।
क्वथितं च तत्पञ्चगुणं चेत्यर्थः । मात्रया स्वल्पकालेन । परावृत्य पुनरवघट्येत्यर्थः । मात्रया खल्पकालेन । परावृत्य पुनरवघव्येत्यर्थः ।

 
लघुदीपिका ।
 

 
इति हलायुधः । काकिणी । 'काकिणी हर्मणीवार्ता फालस्थः परिमाणकम् ।' मितंपचाम् ।
'मितनखे च' ( ३३४ ) इति खश् । 'शरावोऽस्त्री वर्धमानं' इति वैजयन्ती ।
'अर्जुनं ककुभं प्राहुः' । 'क्लीबे लोहपत्रं च लये (?) लौहे तु मुसलाग्रगे' । 'सिर्कदी
 
पाठा० -

 
[^
]G. 'नातिनिम्न'.
[^
]G. 'ललिवोत्क्षेपणावक्षेपण'.
[^
]G. 'चावग्राह्य'.
 

[^
]G. 'परावृत्य'.