2023-08-14 14:10:31 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
मनेकाः पतन्त्यनुशयपरम्पराः' इति । स्निग्धदृष्टिराचष्ट – 'भद्रे,
कच्चिदस्ति कौशलं शालिप्रस्थेनानेन संपन्नमाहारमस्मानभ्यव-
हारयितुम्' इति । ततस्तया वृद्धदासी साकूतमालोकिता । तस्य
हस्तात्प्रस्थमात्रं धान्यमादाय क्वचिदलिन्दोद्देशे सुसिक्तसंमृष्टे
दत्तपादशौचमुपावेशयत् । सा कन्या तान्गन्धशालीन्संक्षुद्य
मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमायां भूमौ नालीपृष्ठेन
मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार । जगाद
च धात्रीम् – 'मातः, एभिस्तुषैरर्थिनो भूपषणमृजाक्रियाक्षमैः स्वर्ण-
पदचन्द्रिका ।
'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः । प्रस्थं मानविशेषः । 'माषटङ्काक्षबिल्वानि कुडवः प्रस्थमाढकम् । राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणम्' इति शार्ङ्गधरोक्तेः । शेरचतुष्कपरिमाणमिति यावत् । अभ्यवहारयितुं भोजयितुम् । साकूतं साभिप्रायम् । 'आकूतं स्यादभिप्रायः' इति हलायुधः । अलिन्दं देहली । सा कन्या । मात्रयाऽल्पपरिमाणेन । 'मात्रा परिच्छदे वर्णमानेऽल्पे' इति रत्नमाला । आतप उष्णे । मृदुमृदु । शनैः शनैरित्यर्थः । मृजा शुद्धिः । काकि
भूषणा ।
पतित्वमिच्छेत् । मत्स्याङ्कुशाब्जयववज्रहलासिचिह्नावस्वेदनौ मृदुतलौ चरणौ प्रशस्तौ । जङ्घे च रोमरहिते विपुले सुवृत्ते जानुद्वयं सममतुल्यमसंधिदेशम् ॥ ऊरू घनौ करिकरप्रतिमावरोमावश्वत्थपत्रसदृशं विपुलं च गुह्यम् ॥ विस्तीर्णमांसोपचितो नितम्बो गुरुश्च धत्ते रशनाकलापम् । नाभिर्गभीरा विपुलाङ्गनानां प्रदक्षिणावर्तगता च शस्ता ॥ मध्यं स्त्रियास्त्रिवलनान्तमरोमशं च वृत्तौ घनावविषमौ कठिणावुरोजौ । रोमप्रवर्जितमुरो मृदु चाङ्गनानां ग्रीवा च कम्बुनिचितार्थसुखानि धत्ते ॥ बन्धुजीवकुसुमोपमोऽधरो मांसलो रुचिरविश्वरूपधृक् । कुन्द-
कुड्मलनिभाः समा द्विजा योषितां पतिसुखामितार्थदाः ॥ दाक्षिण्ययुक्तमशठं परपुष्टहंसवल्गुप्रभाषणमदीनमसौष्ठवं च । नासा समा समपुरा रुचिरप्रशस्तौ दृङ्नीलनीरजदले द्युतिहारिणी च ॥ नो संगते नातिपृथू न लम्बे शस्ते भ्रुवो बालाशशाङ्कवक्त्रे । अर्धेन्दुसंस्थानमलोमशं च शस्तं ललाटं न तलं न तुङ्गम् ॥ कर्णयुग्ममपि युक्तमांसलं शस्यते मृदु समं समाहितम् । स्निग्धनीलमृदुकुञ्चितलम्बा मूर्धजाः शुभकराः शिरःस्थिताः॥' इति वराहमिहिरः । शालिप्रस्थेन । 'प्रस्थोऽस्त्री सानुमानयोः' इत्यमरः । 'शरावाभ्यां भवेत्प्रस्थः' इति मागधपरिभाषायाम् । सपदि
पादाधिकशेटकपरिमितेन शालिना । साकूतं साभिप्रायम् । 'आकृतं स्यादभिप्रायः' इति हलायुधः । मात्रयेति स्वल्पकालेन । 'स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु । स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः॥' इत्यमरः । तुषैर,
कच्चिदस्ति कौशलं शालिप्रस्थेनानेन संपन्नमाहारमस्मानभ्यव-
हारयितुम्' इति । ततस्तया वृद्धदासी साकूतमालोकिता । तस्य
हस्तात्प्रस्थमात्रं धान्यमादाय क्वचिदलिन्दोद्देशे सुसिक्तसंमृष्टे
दत्तपादशौचमुपावेशयत् । सा कन्या तान्गन्धशालीन्संक्षुद्य
मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमायां भूमौ नालीपृष्ठेन
मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार । जगाद
च धात्रीम् – 'मातः, एभिस्तुषैरर्थिनो भू