2023-09-01 12:47:19 by Lakshmainarayana achar

This page has been fully proofread twice.

भागव्यापिना [^१]वुन्मग्नचूचुकौ विशालारम्भशोभिनौ पयोधरौ, धनधान्यपुत्रभूयस्त्वचिह्नलेखालाञ्छिततले [^२]स्निग्धोद- ग्रकोमलनखमणी ऋज्वनुपूर्ववृत्तताम्राङ्गुली संनतांसदेशे सौकुमार्यवत्यौ निमग्नपर्वसंधी च बाहुलते, तन्वी कम्बुवृत्तबन्धुरा च कंधरा, वृत्तमध्यविभक्तरागाधरम् अंसक्षिप्तचारुचिबुकम् आपूर्णकठिनगण्डमण्डलम् [^३]संगतानुवक्रनीलस्निग्धभ्रूलतम् अनतिप्रौढतिलकुसुमसदृशनासिकम्असितधवलरक्तत्रिभागभासुर[^४]मधुराधीरसंचारमन्थरायतेक्षणम् इन्दुशकलसुन्दरललाटम् इन्द्रनीलशिलाकाररम्यालकपङ्क्ति द्विगुणकुण्डलितम्लाननाली- कनालललितलम्बश्रवणपाशयुगलमाननकमलम्, अनतिभङ्गुरो बहुल: पर्यन्तेऽप्यकपिलरुचिरायामवानेकैकनिसर्गसमस्निग्धनीलो गन्धग्राही च मूर्धजकलापः । सेयमाकृतिर्न व्यभिचरति शीलम् । आसज्जति च मे हृदयमस्यामेव । [^५]तत्परीक्ष्यैनामुद्वहेयम् । अविमृश्यकारिणां हि नियत-
 
पदचन्द्रिका ।
 
तनुतरमतिसूक्ष्मम् । चुचूकं कुचाग्रम् । 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः । पयोधरौ स्तनौ । पुत्रभूयस्त्वं पुत्रबाहुल्यम् । अंसः स्कन्धः । कम्बुः शङ्खः । 'शङ्ख: स्यात्कम्बुरस्त्रियौ' इत्यमरः । कन्धरा ग्रीवा । चिबुकं हनुः । इन्दुशकलमर्धचन्द्रः । नालीकं कमलम् । 'नालीकः शरशल्याङ्गेष्वब्जखण्डे नपुंसकम्' इति मेदिनी । श्रवणपाशः कर्णपाशः । कपिलरुचिः पिङ्गलरुचिः ।
'कडारः कपिलः पिङ्गः' इत्यमरः । आयामो दैर्घ्यम् । मूर्धजकलापः केशकलापः । आसज्जति । सक्तं भवतीत्यर्थः । उद्वहेयम् । उद्वहामीत्यर्थः । अनुशयः पश्चात्तापः ।
 
भूषणा ।
 
तु नितम्बस्थौ द्वयहीने ककुन्दरे' इत्यमरः । चूचुकं कुचाग्रम् । 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः । 'स्निग्धोन्नताग्रतनुताम्रनखौ कुमार्याः पादौ समोपचितचारुनिगूढगुल्फौ। श्लिष्टाङ्गुली कमलकान्तितलौ च यस्यास्तामुद्वहेद्यदि भुवोऽधि-
 
लघुदीपिका ।
 
इत्यजयः । ककुन्दरः । 'कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे' । 'चूचुकं तु कुचाग्रं स्यात्' । अथ च । तथापीत्यर्थः । साकूतं साभिप्रायम् । 'आकूतं स्यादभिप्रायः' ।
 
[^१]G. 'उन्मुखाननचूचुकौ',
[^२]G. 'स्निग्धोदर'.
[^३]G. 'असंगता'.
[^४]G. 'मधुरधीरं'
[^५]G. 'अथ च तत्'.