2023-08-14 13:53:28 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[ षष्ठः
 
भागव्यापिना [^१]वुन्मग्नचूचुकौ विशालारम्भशोभिनौ पयोधरौ, धन-
धान्यपुत्रभूयस्त्वचिह्नलेखालाञ्छिततले [^२]स्निग्धोद- ग्रकोमलनखमणी
ऋज्वनुपूर्ववृत्तताम्राङ्गुली संनतांसदेशे सौकुमार्यवत्यौ निमग्न -
पर्वसंधी च बाहुलते, तन्वी कम्बुवृत्तबन्धुरा च कंधरा,
वृत्तमध्यविभक्तरागाधरम् अंसक्षिप्तचारुचिबुकम् आपूर्णकठिनगण्ड-
मण्डलम् [^३]संगँतानुवक्रनीलस्निग्धभूभ्रूलतम् अनतिप्रौढतिलकुसुम-
सदृशनासिकम् असितधवलरक्तत्रिभागभासुर[^४]मधुराधीरसंचार-
मन्थरायतेक्षणम् इन्दुशकलसुन्दरललाटम् इन्द्रनील शिलाकार-
रम्यालकपङ्किक्ति द्विगुणकुण्डलितम्लान नाली- कनालललितलम्बश्रवण-
पाशयुगलमाननकमलम्, अनतिभङ्गुरो बहुल: पर्यन्तेऽप्यकपिल-
रुचिरायामवानेकैकनिसर्गसमस्निग्धनीलो गन्धग्राही च मूर्धज-
कलापः । सेयमाकृतिर्न व्यभिचरति शीलम् । आसज्जति च मे हृदय-
मस्यामेव । तै[^५]तत्परीक्ष्यैनामुद्देवहेयम् । अविमृश्यकारिणां हि नियत-
HA
 
२२२
 

 
पदचन्द्रिका ।
 

 
तनुतरमतिसूक्ष्मम् । चुचूकं कुचाग्रम् । 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः ।
पयोधरौ स्तनौ । पुत्रभूयस्त्वं पुत्रबाहुल्यम् । अंसः स्कन्धः । कम्बुः शङ्खः ।
'शङ्ख: स्यात्कम्बुरस्त्रियौ' इत्यमरः । कन्धरा ग्रीवा । चिबुकं हनुः ।
इन्दुशकलमर्धचन्द्रः । नालीकं कमलम् । 'नालीकः शरशल्याङ्गेष्वन्ब्जखण्डे
नपुंसकम्' इति मेदिनी । श्रवणपाशः कर्णपाशः । कपिलरुचिः पिङ्गलरुचिः ।

'कडारः कपिलः पिङ्गः' इत्यमरः । आयामो दैर्घ्यम् । मूर्धजकलापः केशकलापः ।
आसज्जति । सक्तं भवतीत्यर्थः । उद्वहेयम् । उद्वहामीत्यर्थः । अनुशयः पश्चात्तापः ।
 

 

 
भूषणा ।
 

 
तु नितम्बस्थौ द्वयहीने ककुन्दरे' इत्यमरः । चूचुकं कुचाग्रम् । 'चूचुकं तु
कुचाग्रं स्यात्' इत्यमरः । 'स्निग्धोन्नताप्ग्रतनुताम्रनखौ कुमार्याः पादौ समोपचि-
तचारुनिगूढगुल्फौ। श्लिष्टाङ्गुली कमलकान्तितलौ च यस्यास्तामुद्वहेद्यदि भुवोऽधि-

 
लघुदीपिका ।
 

 
इत्यजयः । ककुन्दरः । 'कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे' । 'चूचुकं तु कुचामं
ग्रं स्यात्' । अथ च । तथापीत्यर्थः । साकूतं साभिप्रायम् । 'आकूतं स्यादभिप्रायः' ।
 

 
[^१]G. 'उन्मुखाननचूचुकौ',
[^
]G. 'स्निग्धोदर'.
[^
]G. 'असंगता'.
 
पाठा० - १ 'उन्मुखाननचूचुकौ',

[^
]G. 'मधुरधीरं'
[^
]G. 'अथ च तद्त्'.