This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ षष्ठः
 
भागव्यापिनावुन्मग्नचूचुकौ विशालारम्भशोभिनौ पयोधरौ, धन-
धान्यपुत्रभूयस्त्वचिह्नलेखालाञ्छिततले स्निग्धोदयकोमलनखमणी
ऋज्वनुपूर्ववृत्तताम्राङ्गुली संनतांसदेशे सौकुमार्यवत्यौ निमग्न -
पर्वसंधी च बाहुलते, तन्वी कम्बुवृत्तबन्धुरा च कंधरा,
वृत्तमध्यविभक्तरागाधरम् अंसक्षिप्तचारुचिबुकम् आपूर्णकठिनगण्ड-
मण्डलम् संगँतानुवऋनीलस्निग्धभूलतम् अनतिप्रौढतिलकुसुम-
सदृशनासिकम् असितधवलरक्तत्रिभागभासुरमधुराधीरसंचार-
मन्थरायतेक्षणम् इन्दुशकलसुन्दरललाटम् इन्द्रनील शिलाकार-
रम्यालकपङ्कि द्विगुणकुण्डलितम्लान नाली कनालललितलम्बश्रवण-
पाशयुगलमाननकमलम्, अनतिभङ्गुरो बहुल: पर्यन्तेऽप्यकपिल-
रुचिरायामवानेकैकनिसर्गसमस्निग्धनीलो गन्धग्राही च मूर्धज-
कलापः । सेयमाकृतिर्न व्यभिचरति शीलम् । आसज्जति च मे हृदय-
मस्यामेव । तैत्परीक्ष्यैनामुद्देयम् । अविमृश्यकारिणां हि नियत-
HA
 
२२२
 
पदचन्द्रिका ।
 
तनुतरमतिसूक्ष्मम् । चुचूकं कुचाग्रम् । 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः ।
पयोधरौ स्तनौ । पुत्रभूयस्त्वं पुत्रबाहुल्यम् । अंसः स्कन्धः । कम्बुः शङ्खः ।
'शङ्ख: स्यात्कम्बुरस्त्रियौ' इत्यमरः । कन्धरा ग्रीवा । चिबुकं हनुः ।
इन्दुशकलमर्धचन्द्रः । नालीकं कमलम् । 'नालीकः शरशल्याङ्गेष्वन्जखण्डे
नपुंसकम्' इति मेदिनी । श्रवणपाशः कर्णपाशः । कपिलरुचिः पिङ्गलरुचिः ।
'कडारः कपिलः पिङ्गः' इत्यमरः । आयामो दैर्घ्यम् । मूर्धजकलापः केशकलापः ।
आसजति । सक्तं भवतीत्यर्थः । उद्वहेयम् । उद्वहामीत्यर्थः । अनुशयः पश्चात्तापः ।
 

 
भूषणा ।
 
तु नितम्बस्थौ द्वयहीने ककुन्दरे' इत्यमरः । चूचुकं कुचाग्रम् । 'चूचुकं तु
कुचाग्रं स्यात्' इत्यमरः । 'स्निग्धोन्नताप्रतनुताम्रनखौ कुमार्याः पादौ समोपचि-
तचारुनिगूढगुल्फौ। लिष्टाङ्गुली कमलकान्तितलौ च यस्यास्तामुद्वहेयदि भुवोऽधि-
लघुदीपिका ।
 
इत्यजयः । ककुन्दरः । 'कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे' । 'चूचुकं तु कुचामं
स्यात्' । अथ च । तथापीत्यर्थः । साकूतं साभिप्रायम् । 'आकूतं स्यादभिप्रायः' ।
 
२ 'स्निग्धोदर'. ३ 'असंगता'.
 
पाठा० - १ 'उन्मुखाननचूचुकौ',
४ 'मधुरधीरं' ५ 'अथ च तद्'.