2023-09-01 12:47:26 by Lakshmainarayana achar
This page has been fully proofread twice.
भुवं बभ्राम । 'लक्षणज्ञोऽयम्' इत्यमुष्मै कन्याः कन्यावन्तः
प्रदर्शयांबभूवुः । यां कांचिल्लक्षणवतीं सवर्णां कन्यां दृष्ट्वा स
किल स्म ब्रवीति – 'भद्रे, शक्नोपि किमनेन शालिप्रस्थेन
गुणवदन्नमस्मानभ्यवहारयितुम्' इति । स हसितावधूतो
गृहाद्गृहं प्रविश्याभ्रमत् । एकदा तु शिबिषु कावेरीतीरपट्टने सह
पितृभ्यामवसितमहर्धिमवशीर्णभवनसारां धात्र्या प्रदर्श्यमानां
कांचन विरलभूषणां कुमारीं ददर्श । अस्यां संसक्तचक्षुश्चा-
तर्कयत् – 'अस्याः खलु कन्यकायाः सर्व एवावयवा नातिस्थूला
नातिकृशा नातिह्रस्वा नातिदीर्घा न विकटा मृजावन्तश्च । रक्त-
तलाङ्गुली यवमत्स्यकमलकलशाद्यनेकपुण्यलेखालाञ्छितौ करौ,
[^१]समगुल्फसंधी मांसलावशिरालौ चाङ्घ्री जङ्घे चानुपूर्ववृत्ते, पीवरोरुग्रस्ते इव दुरुपलक्ष्ये जानुनी, सकृद्विभक्तश्चतुरस्रः ककुन्दरविभागशोभी रथाङ्गाकारसंस्थितश्च नितम्बभागः, तनुतरमीषन्निम्नं गम्भीरं नाभिमण्डलम्, वलित्रयेण चालंकृतमुदरम्, उरो-
पदचन्द्रिका ।
पितरः । शिबिषु कावेरीदक्षिणतीरेषु । 'शिबिर्मरुद्वृधायास्तु दक्षिणं तीरमिष्यते' इति वैजयन्ती । मृजा शुद्धिः तद्वन्तः । यवोऽङ्गुष्ठविरहाणि । आदिशब्देनान्यानि शुभविरहाणि । गुल्फं घुटिका । 'तद्ग्रन्थी घुटिके गुल्फौ' इत्यमरः । अशिरालौ शिरारहितौ । अङ्घ्री चरणौ । सकृद्विभक्तः समं विभक्तः । 'एकवारे समे सकृत्' इत्यजयः । ककुन्दरं नितम्बस्थितकूपकद्वयम् । 'कूपकौ
तु नितम्बस्थौ द्वयहीने ककुन्दरे' इत्यमरः । रथाङ्गं चक्रम् । संस्थितिर्मर्यादा
भूषणा ।
देशीयरः' (५।३।६७ ) । शालिस्तन्दुलविशेषः । 'कण्डनेन विना श्वेतं हैमन्तं शालि संस्मृतम्' इति भावमिश्रः । शिबिषु कावेरीदक्षिणतीरेषु । 'शिबिर्मरुद्वृधायास्तु दक्षिणं तीरमिष्यते' इति वैजयन्ती । मृजावन्तः शुद्धाः । मांसलौ पुष्टौ । अत एव
मग्नगुल्फसंधी । 'तद्ग्रन्थी घुटिके गुल्फौ' इत्यमरः । अत एवादृश्यमानशिरावेष्टितौ । सकृद्विभक्तः संविभक्तः । 'एकवारे समे सकृत्' इत्यजयः । ककुन्दरः । 'कूपकौ
लघुदीपिका ।
यर:' (५।३।६७) । शिबिषु कावेरीदक्षिणतीरेषु । 'शिबिर्मरुद्वृधा- यास्तु दक्षिणं तीरमुच्यते' इति वैजयन्ती । सकृद्विभक्तः समविभक्तः । 'एकवारे समे सकृत्'
[^१]G. 'मग्नगुल्फसंधी'.