2023-08-14 13:36:15 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २२१
 
भुवं बभ्राम । 'लक्षणज्ञोऽयम्' इत्यमुष्मै कन्याः कन्यावन्तः

प्रदर्शयांबभूवुः । यां कांचिल्लक्षणवर्ती सवर्णां कन्यां दृष्ट्वा स

किल स्म ब्रवीति – 'भद्रे, शक्नोपि किमनेन शालिप्रस्थेन

गुणवदन्नमस्मानभ्यवहारयितुम्' इति । स हसितावधूतो

गृहाद्गृहं प्रविश्याभ्रमत् । एकदा तु शिबिषु कावेरीतीरपट्टने सह

पितृभ्यामवसितमहर्धिमवशीर्णभवनसारां धात्र्या प्रदर्यमानां

कांचन विरलभूणां कुमारीं ददर्श । अस्यां संसक्तचक्षुश्चा-

तर्कयत् – 'अस्याः खलु कन्यकायाः सर्व एवावयवा नातिस्थूला

नातिकृशा नातिहस्खाह्रस्वा नातिदीर्घा न विकटा मृजावन्तश्च । रक्त-

तलाङ्गुली यवमत्स्यकमलकलशाद्यनेकपुण्यलेखालाञ्छितौ करोरौ,
सै

[^१]स
मगुल्फसंधी मांसलावशिरालौ चाङ्गी जोघ्री जङ्घे चानुपूर्ववृत्ते, पीव-
जते
रोरुग्रस्ते इव दुरुपलक्ष्ये जानुनी, सकृद्विभक्तश्चतुरस्रः ककुन्दर-
विभागशोभी रथाङ्गाकारसंस्थितञ्च नितम्बभागः, तनुतरमीष-
न्निम्नं गम्भीरं नाभिमण्डलम्, वलित्रयेण चालंकृतमुदरम्, उरो-

 
पदचन्द्रिका ।
 

 
पितरः । शिबिषु कावेरीदक्षिणतीरेषु । 'शिबिर्मरुघाद्वृधायास्तु दक्षिणं वीतीरमिष्यते'
इति वैजयन्ती । मृजा शुद्धिः तद्वन्तः । यवोऽङ्गुष्ठविरहाणि । आदि
शब्देनान्यानि शुभविरहाणि । गुल्फं घुटिका । 'तद्ग्रन्थी घुटिके गुल्फो
फौ' इत्यमरः । अशिरालौ शिरारहितौ । अड्डीङ्घ्री चरणौ । सकृद्विभक्तः समं विभक्तः ।
'एकवारे समे सकृत्' इत्यजयः । ककुन्दरं नितम्ब स्थितकूपकद्वयम् । 'कूपको
सु
कौ
तु
नितम्बस्थौ द्वयहीने ककुन्दरे' इत्यमरः । रथाङ्गं चक्रम् । संस्थितिर्मर्यादा
 

 
भूषणा ।
 

 
देशीयरः' (५।३।६७ ) । शालिस्तन्दुलविशेषः । 'कण्डनेन विना श्वेतं हैमन्तं शालि
संस्मृतम्' इति भावमिश्रः । शिबिषु कावेरीदक्षिणतीरेषु । 'शिबिर्मरुद्वृधायास्तु
दक्षिणं तीरमिष्यते' इति वैजयन्ती । मृजावन्तः शुद्धाः । मांसलौ पुष्टौ । अत एव
मम

मग्न
गुल्फसंधी । 'तद्ग्रन्थी घुटिके गुल्फीफौ' इत्यमरः । अत एवादृश्यमानशिरावेष्टितौ ।
सकृद्विभक्तः संविभक्तः । 'एकवारे समे सकृत्' इत्यजयः । ककुन्दरः । 'कूपकौ

 
लघुदीपिका ।
 

 
र:' (५।३।६७) । शिबिषु कावेरीदक्षिणतीरेषु । 'शिबिर्मरुद्वृधा- यास्तु दक्षिणं
तीरमुच्यते' इति वैजयन्ती । सकृद्विभक्तः समविभक्तः । 'एकवारे समे सकृत्
 
पाठा०-
'
 
[^
'मझ]G. 'मग्नगुल्फसंघीधी'.