This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २२१
 
भुवं बभ्राम । 'लक्षणज्ञोऽयम्' इत्यमुष्मै कन्याः कन्यावन्तः
प्रदर्शयांबभूवुः । यां कांचिल्लक्षणवर्ती सवर्णां कन्यां दृष्ट्वा स
किल स्म ब्रवीति – 'भद्रे, शक्नोपि किमनेन शालिप्रस्थेन
गुणवदन्नमस्मानभ्यवहारयितुम्' इति । स हसितावधूतो
गृहाद्गृहं प्रविश्याभ्रमत् । एकदा तु शिबिषु कावेरीतीरपट्टने सह
पितृभ्यामवसितमहर्धिमवशीर्णभवनसारां धात्र्या प्रदर्यमानां
कांचन विरलभूपणां कुमारीं ददर्श । अस्यां संसक्तचक्षुचा-
तर्कयत् – 'अस्याः खलु कन्यकायाः सर्व एवावयवा नातिस्थूला
नातिकृशा नातिहस्खा नातिदीर्घा न विकटा मृजावन्तश्च । रक्त-
तलाङ्गुली यवमत्स्यकमलकलशाद्यनेकपुण्यलेखालाञ्छितौ करो,
सैमगुल्फसंधी मांसलावशिरालौ चाङ्गी जो चानुपूर्ववृत्ते, पीव-
जते
रोरुमस्ते इव दुरुपलक्ष्ये जानुनी, सकृद्विभक्तश्चतुरस्रः ककुन्दर-
विभागशोभी रथाङ्गाकारसंस्थितञ्च नितम्बभागः, तनुतरमीष-
निम्नं गम्भीरं नाभिमण्डलम्, वलित्रयेण चालंकृतमुदरम्, उरो-
पदचन्द्रिका ।
 
पितरः । शिबिषु कावेरीदक्षिणतीरेषु । 'शिबिरुघायास्तु दक्षिणं वीरमिष्यते'
इति वैजयन्ती । मृजा शुद्धिः तद्वन्तः । यवोऽङ्गुष्ठविरहाणि । आदि
शब्देनान्यानि शुभविरहाणि । गुल्फं घुटिका । 'तग्रन्थी घुटिके गुल्फो
इत्यमरः । अशिरालौ शिरारहितौ । अड्डी चरणौ । सकृद्विभक्तः समं विभक्तः ।
'एकवारे समे सकृत्' इत्यजयः । ककुन्दरं नितम्ब स्थितकूपकद्वयम् । 'कूपको
सु नितम्बस्थौ द्वयहीने ककुन्दरे' इत्यमरः । रथाङ्गं चक्रम् । संस्थितिर्मर्यादा
 
भूषणा ।
 
देशीयरः' (५।३।६७ ) । शालिस्तन्दुलविशेषः । 'कण्डनेन विना श्वेतं हैमन्तं शालि
संस्मृतम्' इति भावमिश्रः । शिबिषु कावेरीदक्षिणतीरेषु । 'शिबिरुद्धायास्तु
दक्षिणं तीरमिष्यते' इति वैजयन्ती । मृजावन्तः शुद्धाः । मांसलौ पुष्टौ । अत एव
ममगुल्फसंधी । 'तग्रन्थी घुटिके गुल्फी' इत्यमरः । अत एवादृश्यमानशिरावेष्टितौ ।
सद्विभक्तः संविभक्तः । 'एकवार समे सकृत्' इत्यजयः । ककुन्दरः । 'कूपकौ
लघुदीपिका ।
 
थर:' (५।३।६७) । शिबिषु कावेरीदक्षिणतीरेषु । 'शिबिर्मरुद्धायास्तु दक्षिणं
तीरमुच्यते' इति वैजयन्ती । सकृद्विभक्तः समविभक्तः । 'एकवारे समे सकृत्
 
पाठा०-१ 'मझगुल्फसंघी'.