2023-09-01 12:47:33 by Lakshmainarayana achar

This page has been fully proofread twice.

पानीयार्थिसार्थजनसमापत्तिदृष्टोद्धृतमवन्तिषु भ्रमन्तमाहारार्थिनं
भर्तारमुपलभ्य सा धूमिनी 'येन मे पतिर्विकलीकृतः स दुरात्मा-
यम्, इति तस्य साधोश्चित्रवधमज्ञेन राज्ञा समादेशयांचकार ।
धन्यकस्तु दत्तपश्चाद्बन्धो वध्यभूमिं नीयमानः सशेषत्वादायुषः
'यो मया विकलीकृतोऽभिमतो भिक्षुः, स चेन्मे पापमाचक्षीत,
युक्तो मे दण्डः' इत्यदीनमधिकृतं जगाद । ' को दोषः' इत्युप-
नीय दर्शितेऽमुष्मिन्स विकलः पर्यश्रुः पादपतितस्तस्य साधोस्त-
त्सुकृतमसत्याश्च तस्यास्तथाभूतं दुश्चरितमार्यबुद्धिराचचक्षे ।
कुपितेन राज्ञा विरूपितमुखी सा दुष्कृतकारिणी कृता श्वभ्यः
पाचिका । कृतश्च धन्यकः प्रसादभूमिः । तद्ब्रवीमि – 'स्त्रीहृदयं
क्रूरम्' इति ।
पुनरनुयुक्तो गोमिनीवृत्तान्तमाख्यातवान्– 'अस्ति द्रविडेषु
काञ्ची नाम नगरी । तस्यामनेककोटिसारः श्रेष्ठिपुत्रः शक्तिकुमारो नामासीत् । सोऽष्टादशवर्षदेशीयश्चिन्तामापेदे – 'नास्त्य-दाराणामननुगुणदाराणां वा सुखं नाम । [^१]तत्कथं नु गुणवद्विन्देयं कलत्रम्' इति । अथ परप्रत्ययाहृतेषु दारेषु यादृच्छिकीं संपत्तिमनभिसमीक्ष्य कार्तान्तिको नाम भूत्वा वस्त्रान्तपिनद्धशालिप्रस्थो
 
पदचन्द्रिका ।
 
अथेति । पानीयं जलं तदर्थी तत्प्रार्थकः । वध्यभूमिं मारणभुवम् । श्वभ्यः पाचिका पुटपाककर्त्री । प्रसादभूमिः प्रसादास्पदम् ॥
अष्टादशवर्षदेशीयः किंचिन्न्यूनाष्टादशवर्षः। 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' ( ५।३।६७) । 'कार्तान्तिको लक्षणज्ञः' इति वैजयन्ती । कन्यावन्तः कन्या-
 
भूषणा ।
 
याया विशेषणमेतत् । उदञ्चनं सेचनपात्रम् । 'उत्सेचनं सेकपात्रं तदुदञ्चनमित्यपि ' इति । अष्टादशवर्षदेशीयः किंचिन्न्यूनाष्टादशवर्षः । 'ईषदसमाप्तौ कल्पब्देश्य-
 
लघुदीपिका ।
 
वनम्' इङ्गुदी तापसतरुः । 'उत्सेचनं सेकपात्रं पयोदं व ( तदुदञ्च ) नमित्यपि' । अष्टादशवर्षदेशीयः किंचिन्न्यूनाष्टादशवर्षः । 'ईषदसमाप्तौ कल्पब्देश्यदेशी-
 
[^१]G. 'तत्कथं न गुणवद्विधेयम्'.