2023-09-01 12:47:42 by Lakshmainarayana achar

This page has been fully proofread twice.

स्वामत्तुमक्षमस्तया सह तस्यामेव निश्यपासरत् । मार्गक्लान्तां
चोद्वहन्वनं जगाहे । स्वमांसासृगपनीतक्षुत्पिपासां तां नयन्नन्तरे
कमपि [^१]निकृत्तपाणिपादकर्णनासिकमवनिपृष्ठे विचेष्टमानं पुरुषमद्राक्षीत् । तमप्यार्द्राशयः स्कन्धेनोद्वहन्कन्दमूलमृगबहुले गहनोद्देशे यत्नरचितपर्णशालश्चिरमवसत् । अमुं च रोपितव्र-णमिङ्गुदीतैलादिमिरामिषेण शाकेनात्मनिर्विशेषं पुपोष । पुष्टं च तमुद्रिक्तधातुमेकदा मृगान्वेषणाय च प्रयाते धन्यके सा धूमिनी
रिरंसयोपातिष्ठत् । भर्त्सितापि तेन बलात्कारमरीरमत् । निवृत्तं
च पतिमुदकाभ्यर्थिनम् 'उद्धृत्य कूपात्पिब, रुजति मे शिरः
च शिरोरोगः' इत्युदञ्चनं सरज्जु पुरश्चिक्षेप । उदञ्चयन्तं च तं कूपा-
दपः क्षणात्पृष्ठतो गत्वा प्रणुनोद । तं च विकलं स्कन्धेनोदुह्य
देशाद्देशान्तरं परिभ्रमन्ती पतिव्रताप्रतीतिं लेभे बहुविधाश्च
पूजाः । पुनरवन्तिराजानुग्रहादतिमहत्या भूत्या न्यवसत् । अथ
 
पदचन्द्रिका ।
 
भक्षयितुम् । अक्षमोऽसमर्थः । निशि रात्रौ । अपासरदगच्छत् । 'सृ गतौ इत्यस्य रूपम् । मांसं च प्रसिद्धम् । असृग्रक्तम् । क्षुत्क्षुधा । पिपासा तृट् । अवनिष्पृष्ठे महीतले । गहनोद्देशे वनप्रदेशे । 'गहनं काननं वनम्' इत्यमरः । इङ्गुदी भाषया 'हिंगणबेट' इति प्रसिद्धः । 'इङ्गुदी तापसतरुः' इत्यमरः । आमिषं मांसम् ।आत्मनिर्विशेषमात्मतुल्यम् । रिरंसया रन्तुमिच्छया । बलात्कारमिति क्रियाविशेषणम् । अरीरमक्रीडांचक्रे । निवृत्तं परावृत्यागतम् । उदकाभ्यर्थिनं जलकाङ्क्षिणम् । कूपादन्धोः । 'पुंस्येवान्धुः प्रहिः कूपः' इत्यमरः । रुजति । 'रुज व्यथने' ।
व्यथां प्राप्नोतीत्यर्थः । उदञ्चनं जलनिष्कासनपात्रम् । 'उत्सेचनं सेकपात्रं तथोदञ्चनमित्यपि ' इति वैजयन्ती । भाषया 'डोल' इति । सरज्जु सदोरकम् । पुरोऽग्रे चिक्षेप । त्यक्तवतीत्यर्थः । विकलं विह्वलम् । प्रतीतिं ख्यातिम् । भूत्यैश्वर्येण ।
 
भूषणा ।
 
गवलो महिषेऽस्त्री तु तस्य शृङ्गेऽपि वर्तते' इति वैजयन्ती । गहनोद्देशे । 'गहनं काननं वनम्' इत्यमरः । इङ्गुदी तापसतरुः । एवमेवामरः । बलात्कारम् । क्रि
 
लघुदीपिका ।
 
महिषेऽस्त्री तु तस्य शृङ्गेऽपि वर्तते' इति वैजयन्ती । गहनोद्देशे । 'गहनं काननं
 
[^१]G. 'अरिनिकृत्त'.