This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
२१९
 
स्वामत्तुमक्षमस्तया सह तस्यामेव निश्यपासरत् । मार्गक्कान्तां
चोहन्वनं जगाहे । स्वमांसासृगपनीतक्षुत्पिपासां तां नयन्नन्तरे
कमपि निर्वृत्तपाणिपादकर्णनासिकमवनिपृष्ठे विचेष्टमानं पुरुष-
मद्राक्षीत् । तमप्याद्राशयः स्कन्धेनोद्वहन्कन्दमूलमृगबहुले गह-
नोद्देशे यत्नरचितपर्णशालश्चिरमवसत् । अमुं च रोपितत्रणमिङ्गुदी-
तैलादिमिरामिपेण शाकेनात्मनिर्विशेषं पुपोष । पुष्टं च तमु-
द्रिक्तधातुमेकदा मृगान्वेषणाय च प्रयाते धन्यके सा धूमिनी
रिरंसयोपातिष्ठत् । भर्त्सितापि तेन बलात्कारमरीरमत् । निवृत्तं
च पतिमुकाभ्यर्थिनम् 'उद्धृत्य कूपात्पिब, रुजति मे शिरः

शिरोरोगः' इत्युदश्वनं सरज्जु पुरश्चिक्षेप । उदश्चयन्तं च तं कूपा-
दपः क्षणात्पृष्ठतो गत्वा प्रणुनोद । तं च विकलं स्कन्धेनोदुह्य
देशादेशान्तरं परिभ्रमन्ती पतिव्रताप्रतीतिं लेभे बहुविधाञ्च
पूजाः । पुनरवन्तिराजानुग्रहादतिमहत्या भूत्या न्यवसत् । अथ
 
-
 
पदचन्द्रिका ।
 
भक्षयितुम् । अक्षमोऽसमर्थः । निशि रात्रौ । अपासरदगच्छत् । 'सृ गतौ
इत्यस्य रूपम् । मांसं च प्रसिद्धम् । असृक्तम् । क्षुत्क्षुधा । पिपासा तृट् । अव-
निष्पृष्ठे महीतले । गहनोद्देशे वनप्रदेशे । 'गहनं काननं वनम्' इत्यमरः । इड्डदी
भाषया 'हिंगणबेट' इति प्रसिद्धः । 'इहुदी तापसतरुः' इत्यमरः । आमिषं मां-
सम् । आत्मनिर्विशेषमात्मतुल्यम् । रिरंसया रन्तुमिच्छया । बलात्कारमिति क्रिया-
विशेषणम् । अरीरमक्रीडांचक्रे । निवृत्तं परावृत्यागतम् । उदकाभ्यर्थिनं जलकाङ्क्षि-
णम् । कूपादन्धोः । 'पुंस्येवान्धुः प्रहिः कूपः' इत्यमरः । रुजति । 'रुज व्यथने' ।
व्यथां प्राप्नोतीत्यर्थः । उदञ्चनं जलनिष्कासनपात्रम् । 'उत्सेचनं सेकपात्रं तथोदञ्च-
नमित्यपि ' इति वैजयन्ती । भाषया 'डोल' इति । सरज्जु सदोरकम् । पुरोऽये
चिक्षेप । त्यक्तवतीत्यर्थः । विकलं विह्वलम् । प्रतीतिं ख्यातिम् । भूत्यैश्वर्येण ।
 
भूषणा ।
 
गवलो महिषेऽस्त्री तु तस्य शृङ्गेऽपि वर्तते' इति वैजयन्ती । गहनोद्देशे । 'गहनं
काननं वनम्' इत्यमरः । इड्डदी तापसतरुः । एवमेवामरः । बलात्कारम् । क्रि
 
लघुदीपिका ।
 
वर्तते इति वैजयन्ती । गहनोद्देशे । 'गहनं काननं
 
महिषेऽस्त्री तु तस्य शृङ्गेऽपि
 
पाठा०-१ 'अरिनिकृत्त'.