2023-09-01 12:48:05 by Lakshmainarayana achar

This page has been fully proofread twice.

'अस्ति त्रिगर्तो नाम जनपदः । तत्रासन्गृहिणस्त्रयः स्फीत-
सारधना: सोदर्या धनकधान्यकधन्यकाख्याः । तेषु जीवत्सु
न ववर्ष वर्षाणि द्वादश दशशताक्षः, क्षीणसारं सस्यम्,
[^१]ओषध्यो वन्ध्याः, न फलवन्तो वनस्पतयः, क्लीबा मेघाः, क्षीण- स्रोतसः स्रवन्त्यः, पड्कशेषाणि पल्वलानि, निर्निस्यन्दान्युत्समण्ड-
लानि, विरलीभूतं कन्दमूलफलम्, अवहीनाः कथाः, गलिताः
कल्याणोत्सवक्रियाः, बहुलीभूतानि तस्करकुलानि, अन्योन्यम-
भक्षयन्प्रजाः, पर्यलुठन्नितस्ततो वलाकापाण्डुराणि नरशिरःकपा-
लानि, पर्यहिण्डन्त शुष्काः काकमण्डल्यः शून्यीभूतानि नगर-
ग्रामखर्वटपुटभेदनादीनि । त एते गृहपतयः सर्वधान्यनिचय-
मुप [^२]युज्याजाविकं गवलगणं गवां यूथं दासीदासजनमपत्यानि
ज्येष्ठमध्यमभार्ये च क्रमेण भक्षयित्वा 'कनिष्ठभार्या धूमिनी श्वो
भक्षणीया' इति समकल्पयन् । अथ कनिष्ठो धन्यकः प्रियां
 
पदचन्द्रिका ।
 
द्वादशेति । 'कालाध्वनोरत्यन्तसंयोगे' (२।३।५) इति द्वितीया । दशशताक्ष इन्द्रः । न ववर्ष । वृष्टिं न चकारेत्यर्थः । स्रवन्त्यो नद्यः । 'स्रवन्ती निम्नगापगा' इत्यमरः । पङ्कशेषाणि कर्दमशेषाणि । पल्वलान्यल्पसरांसि । उत्समण्डलानि प्रस्रवणमण्डलानि । 'उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः' इत्यमरः । 'बलाका बिसकण्ठिका' इत्यमरः । पर्यहिण्डन्त पर्यभ्रमन् । 'हिडि भ्रमणे' । अजाश्च अवयश्च तत्समूहोऽजाविकम् । गवला महिषाः । 'गवलो महिषेऽस्त्री तु तस्य शृङ्गेऽपि वर्तते' इति वैजयन्ती । यूथं समूहः । श्व आगामिदिवसे । कनिष्ठः कनीयान् । अत्तुं
 
भूषणा ।
 
ध्वनोरत्यन्तसंयोगे' (२।३।५ ) इति द्वितीया । दशशताक्ष इन्द्रः । सस्यं धान्यम् । ओषध्यः फलपाकान्ताः । 'ओषध्य: फलपाकान्ताः' इत्यमरः । उत्सो निर्झरः । 'उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः' इत्यमरः । पर्यहिण्डन्त । 'हिडि गत्यनादरयोः' । 'अजाविकटम्' इति पाठः । 'घ्यन्तादजाद्यदन्तं विप्रतिषेधेन' ( वा ० ) इत्यजशब्दस्य पूर्वनिपातः । 'संघाते कटच्' ( वा ० ) इति सामूहिकापवादः कटच् । गवलगणम् ।
 
लघुदीपिका ।
 
ध्वनोरत्यन्तसंयोगे' (२।३।५) इति द्वितीया । दशशताक्ष इन्द्रः । सस्यं धान्यादि । 'ओषध्यः फलपाकान्ताः' । उत्सः । 'उत्सः प्रस्रवणं वारिप्रवाहः' । पर्यहिण्डन्त पर्यभ्रमन् । 'हिडि भ्रमणे' । अजाविकम् । अजानामवीनां च समूहः । गवलगणम् । 'गवलो
 
[^१]G. 'औषध्यः',
[^२]G. 'अजाविकटम्'.