2023-05-18 02:09:52 by ambuda-bot
This page has not been fully proofread.
प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
परिजने विजने शोकपारावारमपारमुचर्तुमशक्नुवती सेनानिवेशदेश
निःशब्दलेशं शनैरतिक्रम्य यस्मिन्रथस्य संसक्ततया तदानयनपला-
यनश्रान्ता गन्तुमक्षमाः क्षमापतिरथ्याः पथ्याकुलाः पूर्वमतिष्ठंस्तस्य
निकटवटतरोः शाखायां मृतिरेखायामिव क्वचिदुत्तरीयार्धेन बन्धनं
मृतिसाधनं विरच्य मर्तुकामाभिरामा वाड्याधुरीविरंसीकृतकल-
कण्ठा साश्रुकण्ठा व्यलपत्– 'लावण्योपमितपुष्पसायक, भूनायक,
भवानेव भाविन्यपि जन्मनि वल्लभो भवतु' इति । तदाकर्ण्य
नीहारकरकिरणनिकरसंपर्कलब्धावबोधो मागधोऽगाधरुधिरविक्षर-
णनष्टचेष्टो देवीवाक्यमेव निश्चिन्वानस्तन्वानः प्रियवचनानि शनै-
स्तामाह्वयत् । सा संसंभ्रममागत्यामन्दहृदयानन्दसंफुल्लवदनार-
विन्दा तमुपोषिताभ्यामिवानिमिषिताभ्यां लोचनाभ्यां पिबन्ती
2-
इत्यमरः । निद्रया निलीढ़े व्याप्ते नेत्रे यस्य स तस्मिन् परिजनेऽनुचरवर्गे । विजने
विविक्त शोकपारावारं शोकसमुद्रम् । 'समुद्रोऽब्धिरकूपारः पारावारः सरि-
त्पतिः' इत्यमरः । अपारं पारयितुमशक्यम् । सेनाया निवेश: शिबिरम् । एवमे-
वामरः । वासस्थानमिति यावत् । तस्य देश: प्रदेशः । निर्गतः शब्दलेशो यस्मा-
त्तत् । संसक्तस्य भावस्तया । तस्यानयनं तदानयनं यस्मिन्यत्पलायनं तेन श्रान्ताः ।
अक्षमा असमर्थाः । क्षमायाः पृथ्व्याः । 'गौरिला कुम्मिनी क्षमा' इत्यमरः । पतिः
स्वामी भर्ता वा तस्य रथ्या वाहाः । 'तद्वहति रथयुग- (४१४१७६ ) इति यः ।
'पथि आकुला' इति च्छेदः । भृतेर्मरणस्य रेखा तस्याम् । उत्तरीयस्य संव्यानस्य ।
'संव्यानमुत्तरीयं च' इत्यमरः । विरच्य कृत्वा मर्तु कामो यस्याः सा । तुं काम-
मनसोरपि' इत्यनुस्वारलोपः । वाचो माधुरी माधुर्य तया विरसीकृतोऽधरीकृतः
कलकण्ठः कोकिलो यया सा । व्यलपत् । रुरोदेत्यर्थः । लावण्येनोपमितः पुष्प-
सायको मदनो येन तत्संबुद्धौ । भूनायक धराङ्गनाभर्तः । भाविन्यागामिनि ।
वल्लभो रमणः । नीहारकरश्चन्द्रस्तस्य किरणानां मयूखानां निकरस्य समुदायस्य संप-
र्केण लब्धः प्राप्तोऽवबोधो येन सः । प्रकृतिमापन इत्यर्थः । मागधो मागधाधिपो
राजहंसः । अगाधस्या भ्रस्य रुधिरस्यासृजो विक्षरणं विशेषेण संचलनं तेन नष्टा
चेष्टा यस्य सः निश्चिन्वानो निश्चयं कुर्वन् । ससंभ्रमं सादरम् । न मन्दोऽमन्दः ।
हृदयस्यानन्दो हृदयानन्दः । अमन्दश्चासौ हृदयानन्दश्चामन्दहृदयानन्दः तेन
संफुलं सम्यग्विकसितं प्रसन्नं वदनारविन्दं मुखकमलं यस्याः सा । उपोषिताभ्याम् ।
जातोत्कण्ठाभ्यामित्यर्थः । अनिमिषिताभ्यां निमेषरहिताभ्याम् । विकखरेण समु-
पाठा० - १ 'दूरीकृतकलकण्ठकण्ठा'. २ 'भवानेकः'. ३ 'चिरक्षरण'.
● 'देवीवाक्यमिव' ५ 'पिकस्वरेण'.