2023-08-13 17:12:48 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
[^१]मञ्जरीभरस्तरुवनाभोगः' इत्यतृप्ततरया दशा बहुबहु पश्यन्न-
लक्षिताध्यारूढक्षोणीधरशिखरः शोणीभूतमुत्प्रभाभिः पद्मराग-
सोपानशिलाभिः किमपि नालीकपरागधूसरं सर: समध्यगाम् ।
तत्र स्नातश्च कांश्चिदमृतस्वादून्बिसभङ्गानास्वाद्य, अंसलग्नकह्ला- रस्तीरवर्तिना केनापि भीमरूपेण ब्रह्मराक्षसेनाभिपत्य 'कोऽसि, कुतस्त्योऽसि' इति निर्भर्त्सयताभ्यधीये । निर्भयेन च मया सोऽभ्य-
धीयत – 'सौम्य, सोऽहमस्मि द्विजन्मा । शत्रुहस्तादर्णवम्,
अर्णवाद्यवननावम्, यवननावश्चित्रग्रावाणमेनं पर्वतप्रवरं गतः,
यदृच्छयास्मिन्सरसि विश्रान्तः । भद्रं तव' इति । सोऽब्रूत - 'न
चेद्ब्रवीषि प्रश्नानश्नामि त्वाम्' इति । मयोक्तम्- 'पृच्छा तावत्
भवतु' इति । अथावयोरेकयार्ययासीत्संलापः-
'किं क्रूरं स्त्रीहृदयं किं गृहिण : प्रियहिताय दारगुणाः ।
कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ॥
[^२]तत्र धूमिनीगोमिनीनिम्बवतीनितम्बवत्यः प्रमाणम्' इत्युपदिष्टो
मया सोऽब्रूत — 'कथय, कीदृश्यस्ताः' इति । अत्रोदाहरम् -
पदचन्द्रिका ।
तरुवनाभोगस्तरुवनपूर्णता । अतृप्ततरया । दर्शनेच्छावत्येत्यर्थः । क्षोणीधरः पर्वतः । 'शिखरः शृङ्ग इति नपुंस्यपि ' इति कोशः । शोणीभूतमारक्तीभूतम् । 'नालीकं पद्मबाणयोः' इति वैजयन्ती । कुतस्त्यः कुत आगतः । निर्भयेन निःशङ्केन । शत्रुहस्ताद्वैरिहस्तात् । अर्णवं समुद्रम् । 'सरस्वान्सागरोऽर्णवः' इत्यमरः । अर्णवा-
द्यवननावम् । यवननावः पञ्चम्यन्तमिदम् । गत इति प्रत्येकमन्वेति । पर्वतप्रवरं पर्वतश्रेष्ठम् । अश्नामि भक्षयिष्ये । अथेति । आवयोर्ब्रह्मराक्षसस्य मम चेति । संलापो मिथोभाषणम् । किं क्रूरमिति । प्रियहिताय प्रियं च हितं च तस्मै । कामः संकल्पः । संकल्पो निश्चयः । इष्टसाधनमित्यर्थः । गृहिणो गृहस्थाः । वर्षाणि
भूषणा ।
ते' । अलक्षितेति । अलक्षितमध्यारूढं क्षोणीधरस्य पर्वतस्य शिखरं येन सोऽतिदूरं गत इति यावत् । नालीकं पद्मम् । 'नालीकं पद्मबाणयोः' इति वैजयन्ती । कह्लारम् । 'सौगन्धिकं तु कह्लारम्' इत्यमरः । प्रियहिताय प्रियं च हितं च तस्मै । कः
कामः संकल्पः । संकल्पो निश्चयः । इष्टसाधनमित्यर्थः । वर्षाणि द्वादश । 'काला-
लघुदीपिका ।
नालीकं पद्मम् । 'नालीकं पद्मबाणयोः' इति वैजयन्ती । वर्षाणि द्वादश । 'काला-
[^१]G. 'मञ्जरीमञ्जुलतरस्तरु.
[^२]G. 'इयदुक्त्वा',
१९ द० कु०