2023-08-13 17:09:08 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः [^१] पदचन्द्रिका-भूषणा-लघुदीपिका
 
सहितम् ।
 
२१७
 
मै
ञ्जरीभरस्तरुवनाभोगः' इत्यतृप्ततरया दशा बहुबहु पश्यन्न-

लक्षिताध्यारूढक्षोणीधर शिखरः शोणीभूतमुत्प्रभाभिः पद्मराग-

सोपानशिलाभिः किमपि नालीकपरागधूसरं सर: समध्यगाम् ।
तत्र स्नात

तत्र स्नातश्
च कांश्चिदमृतस्वादून्बिसभङ्गानाखास्वाद्य, अंसलग्नकहाह्ला- रस्ती-
रवर्तिना केनापि भीमरूपेण ब्रह्मराक्षसेनाभिपत्य 'कोऽसि, कुत-
स्त्योऽसि' इति निर्भर्त्सयताभ्यधीये । निर्भयेन च मया सोऽभ्य-

धीयत – 'सौम्य, सोऽहमस्मि द्विजन्मा । शत्रुहस्तादर्णवम्,

अर्णवाद्यवननावम्, यवननावश्चित्रप्ग्रावाणमेनं पर्वतप्रवरं गतः,

यदृच्छयास्मिन्सरसि विश्रान्तः । भद्रं तव' इति । सोऽब्रूत - 'न

चेद्ब्रवीषि प्रश्नानश्नामि त्वाम्' इति । मयोक्तम्- 'पृच्छा तावत्

भवतु' इति । अथावयोरेकयार्ययासीत्संलापः
 
-
 
'किं क्रूरं स्त्रीहृदयं किं गृहिण : प्रियहिताय दारगुणाः ।

कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ॥
 
तं

 
[^२]त
त्र धूमिनीगोमिनीनिम्बवतीनितम्बवत्यः प्रमाणम्' इत्युपदिष्टो

मया सोऽब्रूत — 'कथय, कीदृश्यस्ताः' इति । अत्रोदाहरम् -

 
पदचन्द्रिका ।
 

 
तरुवनाभोगस्तरुवनपूर्णता । अतृप्ततरया । दर्शनेच्छावत्येत्यर्थः । क्षोणीधरः पर्वतः ।
'शिखरः शृङ्ग इति नपुंस्यपि ' इति कोशः । शोणीभूतमारक्तीभूतम् । 'नालीकं
पद्मबाणयोः' इति वैजयन्ती । कुतस्त्यः कुत आगतः । निर्भयेन निःशङ्केन ।
शत्रुहस्ताद्वैरिहस्तात् । अर्णवं समुद्रम् । 'सरस्वान्सागरोऽर्णवः' इत्यमरः । अर्णवा-

द्य
वननावम् । यवननावः पञ्चम्यन्तमिदम् । गत इति प्रत्येकमन्वेति । पर्वतप्रव
रं पर्वतश्रेष्ठम् । अश्नामि भक्षयिष्ये । अथेति । आवयोर्ब्रह्मराक्षसस्य मम चेति ।
संलापो मिथोभाषणम् । किं क्रूरमिति । प्रियहिताय प्रियं च हितं च तस्मै । कामः
संकल्पः । संकल्पो निश्चयः । इष्टसाधनमित्यर्थः । गृहिणो गृहस्थाः । वर्षाणि

 
भूषणा ।
 
'

 
ते' । अलक्षितेति । अलक्षितमध्यारूढं क्षोणीधरस्य पर्वतस्य शिखरं येन सोऽतिदूरं
गत इति यावत् । नालीकं पद्मम् । 'नालीकं पद्मबाणयोः' इति वैजयन्ती । कहारम् ।
ह्लारम् । 'सौगन्धिकं तु कहाह्लारम्' इत्यमरः । प्रियहिताय प्रियं च हितं च तस्मै । कः

कामः संकल्पः । संकल्पो निश्चयः । इष्टसाधनमित्यर्थः । वर्षाणि द्वादश । 'काला-

 
लघुदीपिका ।
 

 
नालीकं पद्मम् । 'नालीकं पद्मबाणयोः' इति वैजयन्ती । वर्षाणि द्वादश । 'काला-
पाठा०-

 
[^
]G. 'मञ्जरीमञ्जुलतरस्तरु.
[^
]G. 'इयदुक्स्त्वा',

१९० कु०