2023-09-01 12:48:23 by Lakshmainarayana achar
This page has been fully proofread twice.
कार्षम् । अवप्लुत्य हतविध्वस्तयोधमस्मत्पोतसंसक्तपोतममुत्र ना-
विकनायकमनभिसरमभिपत्य जीवग्राहमग्रहीषम् । असौ चासीत्स
एव भीमधन्वा । तं चाहमवबुध्य जातव्रीडमब्रवम् – 'तात, किं
दृष्टानि कृतान्तविलसितानि ?" इति । ते तु सांयात्रिका मदीयेनैव
शृङ्खलेन तमतिगाढं बद्ध्वा हर्षकिलकिलारवमकुर्वन्मां चापूजयन् ।
दुर्वारा तु सा नौरननुकूलवातनुन्ना दूरमभिपत्य कमपि द्वीपं
निबिडमालिष्टवती । तत्र च स्वादु पानीयमेधांसि कन्दमूल-
च फलानि संजिघृक्षवो [^१]गाढपातितशिलावलयमवातराम । तत्र चासीन्महाशैलः । सोऽहम् – 'अहो रमणीयोऽयं पर्वतनितम्बभागः,
कान्ततरेयं [^२]गन्धपाषाणवत्युपत्यका, शिशिरमिदमिन्दीवरारविन्दमकरन्दबिन्दुचन्द्रकोत्तरं गोत्रवारि, रम्योऽयमनेकवर्णकुसुम-
पदचन्द्रिका ।
वैरिसपत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः । भल्लवर्षिणा । बाणवर्षिणेत्यर्थः । टंकृतेन टंकारेण । नपुंसके भावे क्त: । शार्ङ्गेण चापेन । 'शार्ङ्गं चापे हरेश्चापे' इति वैजयन्ती । लवलवीकृताङ्गान् लेशलेशीकृताङ्गान् । अकार्षं कृतवान् । जीवग्राहं
जीवन्तं गृहीत्वेति णमुल् । असाविति । जातव्रीडं जातलज्जम् । अनभिसरमसहायम् । 'अनुप्लव: सहायश्चानुचरोऽभिसरः समाः' इत्यमरः । तातेति । कृतान्तो यमः । 'कृतान्तो यमुनाभ्राता शमनो यमराड्यमः' इत्यमरः । सांयात्रिकाः पोतवाणिजः । 'सांयात्रिकः पोतवणिक्' इत्यमरः । किलकिलारवमित्यनुकरणम् ॥
अननुकूलवातः प्रतिकूलवायुः । स्वादु मधुरम् । एधांसि काष्ठानि । 'काष्टं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम्' इत्यमरः । संजिघृक्षवो ग्रहीतुकामाः । शिलावलयं शिलामण्डलम् । नितम्बः कटकः । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । कान्ततरा सुन्दरतरा । गन्धपाषाणवती । मनःशिलादिधातुपाषाणमयीत्यर्थः ।
अथवा । 'शैलेयं गन्धपाषाणः शिलापुष्पं च कथ्यते' इति । उपत्यका पर्वतासन्नभूमिः । 'उपत्यकाद्रेरासन्ना भूमिः' इत्यमरः । अनेकवर्णानि नानावर्णानि ।
भूषणा ।
लवलवीकृताङ्गान् । लवो भागस्तस्य लवस्तथा कृतान् । चूर्णितानित्यर्थः । अनभिसरमसहायम् । 'अनुप्लवः सहायश्चानुचरोऽभिसरः समाः' इत्यमरः । सांयात्रिकः
पोतवणिक् । एवमेवामरः । गाढपातितेति । गाढपातितं शिलावलयं 'लंगर' पदवाच्यं यत्र तथा । शैलेयं गन्धपाषाणः । 'शैलेयं गन्धपाषाणः शिलापुष्पं च कथ्य-
लघुदीपिका ।
सहायम् । सांयात्रिकः पोतवणिक् । 'शैलेयं गन्धपाषाणः शिलापुष्पं च कथ्यते' ।
[^१]G. 'गाढपतित'.
[^२]G. 'शैलेयवती'.