2023-08-13 16:56:46 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२१६
 
दशकुमारचरितम् ।
 
[
कार्ष्ठः
 
कार्ष
म् । अवष्टुप्लुत्य हतविध्वस्तयोधमस्मत्पोतसंसक्तपोतममुत्र ना-

विकनायकमनभिसरमभिपत्य जीवग्राहमग्रहीषम् । असौ चासीत्स

एव भीमधन्वा । तं चाहमवबुध्य जातव्रीडमब्रवम् – 'तात, किं

दृष्टानि कृतान्तविलसितानि ?" इति । ते तु सांयात्रिका मदीयेनैव

शृङ्खलेन तमतिगाढं बड्डाद्ध्वा हर्षकिलकिलारवमकुर्वन्मां चापूजयन् ।
 

दुर्वारा तु सा नौरननुकूलवातनुन्ना दूरमभिपत्य कमपि द्वीपं

निबिडमालिष्टवती । तत्र च स्वादु पानीयमेधांसि कन्दमूल-


फलानि संजिघृक्षवो [^१]गाढपातितशिलावलयमवातराम । तत्र चासी-
न्महाशैलः । सोऽहम् – 'अहो रमणीयोऽयं पर्वतनितम्बभागः,

कान्ततरेयं [^२]गन्धपाषाणवत्युपत्यका, शिशिरमिदमिन्दीवरारविन्द-
मकरन्दबिन्दुचन्द्रकोत्तरं गोत्रवारि, रम्योऽयमनेकवर्णकुसुम-

 
पदचन्द्रिका ।
 

 
वैरिसपत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः । भल्लवर्षिणा । बाणवर्षिणेत्यर्थः । टंकृतेन
टंकारेण । नपुंसके भावे सःक्त: । शार्मेङ्गेण चापेन । 'शार्ङ्गं चापे हरेवाश्चापे' इति वैज-
यन्ती । लवलवीकृताङ्गान् लेशलेशीकृताङ्गान् । अकार्षं कृतवान् । जीवग्राहं

जीवन्तं गृहीत्वेति णमुल् । असाविति । जातत्व्रीडं जातलज्जम् । अनभिस-
रमसहायम् । 'अनुप्लव: सहायश्चानुचरोऽभिसरः समाः' इत्यमरः । तातेति ।
कृतान्तो यमः । 'कृतान्तो यमुनाभ्राता शमनो यमराज्ड्यमः' इत्यमरः । सांयात्रिकाः
पोतवाणिजः । 'सांयात्रिकः पोतवणिक्' इत्यमरः । किलकिलारवमित्यनुकरणम् ॥
 

अननुकूलवातः प्रतिकूलवायुः । खास्वादु मधुरम् । एधांसि काष्ठानि । 'काष्टं दार्वि-
न्धनं त्वेध इष्ध्ममेधः समित्स्त्रियाम्' इत्यमरः । संजिघृक्षवो ग्रहीतुकामाः । शिला-
वलयं शिलामण्डलम् । नितम्बः कटकः । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः ।
कान्ततरा सुन्दरतरा । गन्धपाषाणवती । मनःशिलादिधातुपाषाणमयीत्यर्थः ।

अथवा । 'शैलेयं गन्धपाषाणः शिलापुष्पं च कथ्यते' इति । उपत्यका पर्वता-
सन्नभूमिः । 'उपत्यकाद्रेरासन्ना भूमिः' इत्यमरः । अनेकवर्णानि नानावर्णानि ।
 

 
भूषणा ।
 

 
लवलवीकृताङ्गान् । लवो भागस्तस्य लवस्तथा कृतान् । चूर्णितानित्यर्थः । अनभिस-
रमसहायम् । 'अनुप्लवः सहायश्चानुचरोऽभिसरः समाः' इत्यमरः । सांयात्रिकः

पोतवणिक् । एवमेवामरः । गाढपातितेति । गाढपातितं शिलावलयं 'लंगर' पद-
वाच्यं यत्र तथा । शैलेयं गन्धपाषाणः । 'शैलेयं गन्धपाषाणः शिलापुष्पं च कथ्य-

 
लघुदीपिका ।
 

 
सहायम् । सांयात्रिकः पोतवणिक् । 'शैलेयं गन्धपाषाणः शिलापुष्पं च कथ्यते' ।
पाठा०-

 
[^
]G. 'गाढपतित'.
[^
]G. 'शैलेयवती'.