This page has not been fully proofread.

२१६
 
दशकुमारचरितम् ।
 
[ षष्ठः
 
कार्षम् । अवष्टुत्य हतविध्वस्तयोधमस्मत्पोतसंसक्तपोतममुत्र ना-
विकनायकमनभिसरमभिपत्य जीवग्राहमग्रहीषम् । असौ चासीत्स
एव भीमधन्वा । तं चाहमवबुध्य जातव्रीडमनवम् – 'तात, किं
दृष्टानि कृतान्तविलसितानि ?" इति । ते तु सांयात्रिका मदीयेनैव
शृङ्खलेन तमतिगाढं बड्डा हर्षकिलकिलारवमकुर्वन्मां चापूजयन् ।
 
दुर्वारा तु सा नौरननुकूलवातनुन्ना दूरमभिपत्य कमपि द्वीपं
निबिडमालिष्टवती । तत्र च स्वादु पानीयमेधांसि कन्दमूल-

फलानि संजिघृक्षवो गाढपातितशिलावलयमवातराम । तत्र चासी-
न्महाशैलः । सोऽहम् – 'अहो रमणीयोऽयं पर्वतनितम्बभागः,
कान्ततरेयं गन्धपाषाणवत्युपत्यका, शिशिरमिदमिन्दीवरारविन्द-
मकरन्दबिन्दुचन्द्रकोत्तरं गोत्रवारि, रम्योऽयमनेकवर्णकुसुम-
पदचन्द्रिका ।
 
वैरिसपत्नारिद्विषद्वेषणदुर्हृदः' इत्यमरः । भलवर्षिणा । बाणवर्षिणेत्यर्थः । टंकृतेन
टंकारेण । नपुंसके भावे सः । शार्मेण चापेन । 'शा चापे हरेवापे' इति वैज-
यन्ती । लवलवीकृताङ्गान् लेशलेशीकृताङ्गान् । अकार्षं कृतवान् । जीवग्राहं
जीवन्तं गृहीत्वेति णमुल् । असाविति । जातत्रीडं जातलजम् । अनभिस-
रमसहायम् । 'अनुप्लव: सहायश्चानुचरोऽभिसरः समाः' इत्यमरः । तातेति ।
कृतान्तो यमः । 'कृतान्तो यमुनाभ्राता शमनो यमराज्यमः' इत्यमरः । सांयात्रिकाः
पोतवाणिजः । 'सांयात्रिकः पोतवणिक्' इत्यमरः । किलकिलारवमित्यनुकरणम् ॥
 
अननुकूलवातः प्रतिकूलवायुः । खादु मधुरम् । एधांसि काष्ठानि । 'काष्टं दार्वि-
न्धनं त्वेध इष्ममेधः समित्त्रियाम्' इत्यमरः । संजिघृक्षवो ग्रहीतुकामाः । शिला-
वलयं शिलामण्डलम् । नितम्बः कटकः । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः ।
कान्ततरा सुन्दरतरा । गन्धपाषाणवती । मनःशिलादिधातुपाषाणमयीत्यर्थः ।
अथवा । 'शैलेयं गन्धपाषाणः शिलापुष्पं च कथ्यते इति । उपत्यका पर्वता-
सन्नभूमिः । 'उपत्यकाद्रेरासन्ना भूमिः' इत्यमरः । अनेकवर्णानि नानावर्णानि ।
 
भूषणा ।
 
लवलवीकृताङ्गान् । लवो भागस्तस्य लवस्तथा कृतान् । चूर्णितानित्यर्थः । अनभिस-
रमसहायम् । 'अनुप्लवः सहायश्चानुचरोऽभिसरः समाः' इत्यमरः । सांयात्रिकः
पोतवणिक् । एवमेवामरः । गाढपातितेति । गाढपातितं शिलावलयं 'लंगर' पद-
वाच्यं यत्र तथा । शैलेयं गन्धपाषाणः । 'शैलेयं गन्धपाषाणः शिलापुष्पं च कथ्य-
लघुदीपिका ।
 
सहायम् । सांयात्रिकः पोतवणिक् । 'शैलेयं गन्धपाषाणः शिलापुष्पं च कथ्यते' ।
पाठा०-१ 'गाढपतित'. २ 'शैलेयवती'.