2023-08-13 16:37:17 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२१५
 
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
पार्श्वचरं पुरुषमेकमालोक्याकथयत् – 'प्रक्षिपैनं सागरे' इति ।

स तु लब्धराज्य इवातिहृष्टः 'देव, यदाज्ञापयसि' इति यथादिष्ट-

मकरोत् । 'अहं तु निरालम्बनो भुजाभ्यामितस्ततः स्पन्दमानः

किमपि काष्ठं दैवदत्तमुरसोपश्लिष्य तावदप्लोषि, यावदपासरद्वा-

सरः शर्वरी च सर्वा । प्रत्युषस्यदृश्यत किमपि वहित्रम् । अमु-

त्रासन्यवना: । ते मामुद्धृत्य रामेषुनान्ने नाविकनायकाय कथित

वन्तः – 'कोऽप्ययमायसनिगलबद्ध एव जले लब्धः पुरुषः ।

सोऽयमपि सिञ्चेत्सहस्रं द्राक्षाणां क्षणेनैकेन' इति । अस्मिन्नेव

क्षणे नैकनौका परिवृतः कोऽपि मदुद्गुरभ्यधावत् । अबिभयुर्यवनाः ।

तावदतिजवा नौकाः श्वान इव वराहमस्मत्पोतं पर्यरुत्सत ।

प्रवर्तत संप्रहारः । पराजयिषत यवनाः । तानहमगतीनवसीदतः

समाश्वास्यालपिषम् – 'अपनयत मे निगडबन्धनम् । अयमह-

मवसादयामि वः सपत्नान्' इति । अमी तथाकुर्वन् । सर्वाश्च

तान्प्रतिभटान्भल्लवर्षिणा भीमटंकृतेन शार्मेङ्गेण लवलवीकृताङ्गान-

 
पदचन्द्रिका ।
 

 
मानः काष्ठं दारु । 'काष्ठं दार्विन्धनं त्वेधः' इत्यमरः । दैवदत्तमदृष्टदत्तम् । उपश्लि-
व्
ष्यालिङ्ग्य । अपासरदतिक्रान्तः । वासरो दिवसः । 'क्कीलीबे दिवसवासरौ' इत्यमरः ।

शर्वरी रात्रिः । 'अथ शर्वरी । निशा निशीथिनी रात्रिः' इत्यमरः । वहित्रं वहनम् ।
अमुत्रासन् । ते च यवना इत्यर्थः । अपि सिञ्चेत् । अपिशब्द: संभावनायाम् ।
'गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि' इत्यमरः । द्राक्षा । 'मृद्रीवीका गोस्तनी
द्राक्षा' इत्यमरः । मद्भुःगु: पोतविशेषः । अतिजवा अतिवेगवत्यः । पर्यरुत्सत ।
परितो रुरुधुरित्यर्थः । अबिभयुः । 'जिभी भये' इत्यस्य धातो रूपम् । भयं प्रापु-
रित्यर्थः । पराजयिषत । पराजयं प्राप्ता इत्यर्थः । आलपिषमवदम् । अपनयत ।
दूरीकुरुतेत्यर्थः । अवसादयामि । नाशयिष्यामीत्यर्थः । सपत्नान् वैरिणः । 'रिपौ
 

 
भूषणा ।
 

 
संभावनायाम् । 'गर्हासमुच्चय प्रश्नवार्तासंभावनास्वपि' इत्यमरः । 'अपिः पदार्थ-
'इति कर्मप्रवचनीयसंज्ञयोपसर्गबाधान्न षत्वम् । 'द्राक्षा । मृद्रीवीका गोस्तनी ( )
द्राक्षा' इत्यमरः । टंकृतं टंकारः । नपुंसके भावे कः । 'शाईक्त: । 'शर्ङ्गं चापे हरेवाश्चापे' इति ।

 
लघुदीपिका ।
 

 
किल' । वहित्रं हनम् । मद्भुःगु: पोतविशेषः । अपि सिञ्चेत् । अपिः संभावनायाम् ।
'गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि' । द्राक्षा । 'मृद्धीवीका गोस्तनी द्राक्षा' । टङ्कृतं
टङ्कारः । नपुंसके भावे क्तः । 'शार्ङ्गं चापे हरेवाश्चापे' इति वैजयन्ती । अनभिसरम-