2023-09-01 12:48:52 by Lakshmainarayana achar

This page has been fully proofread twice.

तन्मात्रे, महिष्या च मनुजेन्द्राय निवेदयिष्यते । विदितार्थस्तु
पार्थिवस्त्वया दुहितुः पाणिं ग्राहयिष्यति । ततश्च त्वदनुजीविना
राजपुत्रेण भवितव्यम् । एष हि देवतासमादिष्टो विधिः । त्वदा-
यत्ते च राज्ये नालमेव त्वामतिक्रम्य मामवरोद्धुं भीमधन्वा ।
तत्सहतामयं त्रिचतुराणि दिनानि' इति मामामन्त्र्य प्रियं चोप-
गूह्य प्रत्ययासीत् । मम कोशदासस्य च तदुक्तानुसारेण बहु-
विकल्पयतोः कथंचिदक्षीयत क्षपा । क्षपान्ते च कृतयथोचित -
नियमस्तमेव प्रियादर्शनसुभगमुद्यानोद्देशमुपागतोऽस्मि । तत्रैव
चोपसृत्य राजपुत्रो निरभिमानमनुकूलाभिः कथाभिर्मामनुवर्तमानो
मुहूर्तमास्त । नीत्वा चोपकार्यामात्मसमेन स्नानभोजनशयना-
दिव्यतिकरेणोपाचरत् । तल्पगतं च स्वप्नेनानुभूयमानप्रियादर्श -
नालिङ्गनसुखमायसेन निगडेनातिबलवद्बहुपुरुषैः पीवरभुज-
दण्डोपरुद्धमबन्धयन्माम् । प्रतिबुद्धं च सहसा समभ्यधात् -
'अयि दुर्मते, श्रुतमालपितं हृतायाश्चन्द्रसेनाया जालरन्ध्रनिःसृतं
तच्चेष्टावबोधकप्रयुक्तयानया कुब्जया । त्वं किलाभिलषितो वराक्या कन्दुकावत्या तव किलानुजीविना मया स्थेयम्, 'त्वद्वचः
किलानतिक्रमता मया चन्द्रसेना कोशदासाय दास्यते' इत्युक्त्वा
 
पदचन्द्रिका ।
 
मरः । आयास्यते आयासं प्राप्यते । त्वदनुजीविना त्वामनुजीवतीति तथा । विधिरदृष्टम् । अवरोद्धुमवरोधनं कर्तुम् । कथंचिन्महता प्रयासेन । क्षपा रात्रिः । अनुकूलाभिः स्वेष्टाभिः । उपकार्योर्ध्वगृहम् । आयसेन लोहमयेन । पीवरौ मांसलौ भुजदण्डौ बाहुदण्डौ ताभ्यामुपरुद्धं यथा तथा । जालरन्ध्रं गवाक्षच्छिद्रम् । किल ।
असंभाव्यार्थे किलशब्दः । 'वार्तासंभाव्ययोः किल' इत्यमरः । स्पन्दमानः कम्प-
 
भूषणा ।
 
अवहसितमनोभवाकारं विहसितकामरूपम् । हरद्विषा कामेन । सहतामयं कोशदासः । उपकार्या राजगृहम् ।'उपकार्योपकारिका' इत्यमरः । पीवरभुजदण्डावुपरुद्धौ यत्र । त्वं किलाभिलषितः । असंभाव्येऽर्थे किलशब्दः । 'वार्तासंभाव्ययोः किल' इत्यमरः ।
वहित्रं वहनम् । मद्गु: पोतविशेषः । अपि सिञ्चेत् । अपिशब्दः
 
लघुदीपिका
 
वैजयन्ती । त्वं किलाभिलषितः, असंभाव्यार्थे किलशब्दः । 'वार्तासंभाव्ययोः