2023-08-13 16:24:19 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२१४
 
दशकुमारचरितम् ।
 
[ षष्ठः
 
तन्मात्रे, महिष्या च मनुजेन्द्राय निवेदयिष्यते । विदितार्थस्तु

पार्थिवस्त्वया दुहितुः पाणिं ग्राहयिष्यति । ततश्च त्वदनुजीविना

राजपुत्रेण भवितव्यम् । एष हि देवतासमादिष्टो विधिः । त्वदा-

यत्ते च राज्ये नालमेव त्वामतिक्रम्य मामवरोद्धुं भीमधन्वा ।

तत्सहतामयं त्रिचतुराणि दिनानि' इति मामामन्त्र्य प्रियं चोप-

गूह्य प्रत्ययासीत् । मम कोशदासस्य च तदुक्तानुसारेण बहु-

विकल्पयतोः कथंचिदक्षीयत क्षपा । क्षपान्ते च कृतयथोचित -

नियमस्तमेव प्रियादर्शन सुभगमुद्यानो द्देशमुपागतोऽस्मि । तत्रैव

चोपसृत्य राजपुत्रो निरभिमानमनुकूलाभिः कथाभिर्मामनुवर्तमानो

मुहूर्तमास्त । नीत्वा चोपकार्यामात्मसमेन स्नानभोजनशयना-

दिव्यतिकरेणोपाचरत् । तल्पगतं च स्वप्नेनानुभूयमानप्रियादर्श -

नालिङ्गनसुखमायसेन निगडेनातिबलवद्हुपुरुषैः पीवरभुज-

दण्डोपरुद्धमबन्धयन्माम् । प्रतिबुद्धं च सहसा समभ्यधात् -

'अयि दुर्मते, श्रुतमालपितं हृतायाश्चन्द्रसेनाया जालरन्ध्रनिःसृतं

तच्चेष्टावबोधकप्रयुक्तयानया कुब्जया । त्वं किलाभिलषितो वराक्या
कन्दुकावत्या तव किलानुजीविना मया स्थेयम्, 'त्वद्वचः

किलानतिक्रमता मया चन्द्रसेना कोशदासाय दास्यते' इत्युक्त्वा
 

 
पदचन्द्रिका ।
 

 
मरः । आयास्यते आयासं प्राप्यते । त्वदनुजीविना त्वामनुजीवतीति तथा ।
विधिरदृष्टम् । अवरोद्धुमवरोधनं कर्तुम् । कथंचिन्महता प्रयासेन । क्षपा रात्रिः ।
अनुकूल/लाभिः स्खेवेष्टाभिः । उपकार्योर्ध्वगृहम् । आयसेन लोहमयेन । पीवरौ मांस
लौ भुजदण्डौ बाहुदण्डौ ताभ्यामुपरुद्धं यथा तथा । जालरन्धंध्रं गवाक्षच्छिद्रम् । किल ।

असंभाव्यायेंर्थे किलशब्दः । 'वार्तासंभाव्ययोः किल' इत्यमरः । स्पन्दमानः कम्प-

 
भूषणा ।
 

 
अवहसितमनोभवाकारं विहसितकामरूपम् । हरद्विषा कामेन । सहतामयं कोश-
दासः । उपकार्या राजगृहम् । 'उपकार्योपकारिका' इत्यमरः । पीवरभुजदण्डावु-
परुद्धौ यत्र । त्वं किलाभिलषितः । असंभाव्येऽर्थे किलशब्दः । 'वार्तासंभाव्ययोः
किल' इत्यमरः । वह्नि
वहि
त्रं वहनम् । मद्भुःगु: पोतविशेषः । अपि सिञ्चेत् । अपिशब्दः
 
वैजयन्ती । त्वं किलाभिलषितः,
 

 
लघुदीपिका
 

 
वैजयन्ती । त्वं किलाभिलषितः,
असंभाव्यार्थे किलशब्दः । 'वार्तासंभाव्ययोः