This page has not been fully proofread.

२१४
 
दशकुमारचरितम् ।
 
[ षष्ठः
 
तन्मात्रे, महिष्या च मनुजेन्द्राय निवेदयिष्यते । विदितार्थस्तु
पार्थिवस्त्वया दुहितुः पाणिं ग्राहयिष्यति । ततश्च त्वदनुजीविना
राजपुत्रेण भवितव्यम् । एष हि देवतासमादिष्टो विधिः । त्वदा-
यत्ते च राज्ये नालमेव त्वामतिक्रम्य मामवरोद्धुं भीमधन्वा ।
तत्सहतामयं त्रिचतुराणि दिनानि' इति मामामत्र्य प्रियं चोप-
गूह्य प्रत्ययासीत् । मम कोशदासस्य च तदुक्तानुसारेण बहु-
विकल्पयतोः कथंचिदक्षीयत क्षपा । क्षपान्ते च कृतयथोचित -
नियमस्तमेव प्रियादर्शन सुभगमुद्यानो देशमुपागतोऽस्मि । तत्रैव
चोपसृत्य राजपुत्रो निरभिमानमनुकूलाभिः कथाभिर्मामनुवर्तमानो
मुहूर्तमास्त । नीत्वा चोपकार्यामात्मसमेन स्नानभोजनशयना-
दिव्यतिकरेणोपाचरत् । तल्पगतं च स्वप्नेनानुभूयमानप्रियादर्श -
नालिङ्गनसुखमायसेन निगडेनातिबलवद्वहुपुरुषैः पीवरभुज-
दण्डोपरुद्धमबन्धयन्माम् । प्रतिबुद्धं च सहसा समभ्यधात् -
'अयि दुर्मते, श्रुतमालपितं हृतायाश्चन्द्रसेनाया जालरन्ध्रनिःसृतं
तच्चेष्टावबोधकप्रयुक्तयानया कुब्जया । त्वं किलाभिलषितो वराक्या
कन्दुकावत्या तव किलानुजीविना मया स्थेयम्, 'त्वद्वचः
किलानतिक्रमता मया चन्द्रसेना कोशदासाय दास्यते इत्युक्त्वा
 
पदचन्द्रिका ।
 
मरः । आयास्यते आयासं प्राप्यते । त्वदनुजीविना वामनुजीवतीति तथा ।
विधिरदृष्टम् । अवरोद्धुमवरोधनं कर्तुम् । कथंचिन्महता प्रयासेन । क्षपा रात्रिः ।
अनुकूल/भिः स्खेष्टाभिः । उपकार्योर्ध्वगृहम् । आयसेन लोहमयेन । पीवरौ मांसल
भुजदण्डौ बाहुदण्डौ ताभ्यामुपरुद्धं यथा तथा । जालरन्धं गवाक्षच्छिद्रम् । किल ।
असंभाव्यायें किलशब्दः । 'वार्तासंभाव्ययोः किल' इत्यमरः । स्पन्दमानः कम्प-
भूषणा ।
 
अवहसितमनोभवाकारं विहसितकामरूपम् । हरद्विषा कामेन । सहतामयं कोश-
दासः । उपकार्या राजगृहम् । 'उपकार्योपकारिका' इत्यमरः । पीवरभुजदण्डावु-
परुद्धौ यत्र । त्वं किलाभिलषितः । असंभाव्येऽर्थे किलशब्दः । 'वार्तासंभाव्ययोः
किल' इत्यमरः । वह्नित्रं वहनम् । मद्भुः पोतविशेषः । अपि सिञ्चेत् । अपिशब्दः
 
वैजयन्ती । त्वं किलाभिलषितः,
 
लघुदीपिका ।
 
असंभाव्यार्थे किलशब्दः । 'वार्तासंभाव्ययोः