2023-09-01 12:48:59 by Lakshmainarayana achar

This page has been fully proofread twice.

त्थाय निमील्योन्मील्य स्थित्वा गत्वा चैवातिचित्रं पर्यक्रीडत राज-
कन्या । अभिहत्य भूतलाकाशयोरपि क्रीडान्तराणि दर्शनीयान्ये-
केनैव वानेकेनैव कन्दुकेनादर्शयत् । चन्द्रसेनादिभिश्च प्रियसखीभिः सह विहृत्य विहृतान्ते चाभिवन्द्य देवीं मनसा मे सानुरागेणेव परिजनेन चानुगम्यमाना, कुवलयशरमिव कुसुमशरस्य मय्यपाङ्गं समर्पयन्ती, सापदेशमसकृदावर्त्यमान- वदनचन्द्रमण्डलतया स्वहृदयमिव मत्समीपे प्रेरितं प्रतिनिवृत्तं न वेत्यालोकयन्ती, सह सखीभिः कुमारीपुरमगमत् ।
अहं चानङ्गविह्वलः स्ववेश्म गत्वा कोशदासेन यत्नवदत्युदारं
स्नानभोजनादिकमनुभावितोऽस्मि । सायं चोपसृत्य चन्द्रसेना
रहसि मां प्रणिपत्य पत्युरंसमंसेन प्रणयपेशलमाघट्टयन्त्युपावि-
शत् । आचष्ट च हृष्टः कोशदासः -- 'भूयासमेवं यावदायुराय-
ताक्षि, त्वत्प्रसादस्य पात्रम्' इति । मया तु सस्मितमभिहितम् -
'सखे' किमेतदाशास्यम् । अस्ति किंचिदञ्जनम् । अनया तदुक्त-
नेत्रया राजसूनुरुपस्थितो वानरीमिवैनां द्रक्ष्यति, विरक्तश्चैनां
पुनस्त्यक्ष्यति' इति । तया तु स्मेरयास्मि कथितः – 'सोऽयमार्ये-
णाज्ञाकरो जनोऽत्यर्थमनुगृहीतः, यदस्मिन्नेव जन्मनि मानुषं
वपुरपनीय वानरीकरिष्यते । तदास्तामिदम् । अन्यथापि सिद्धं
नः समीहितम् । अद्य खलु कन्दुकोत्सवे भवन्त [^१]मपहसितमनोभवाकारमभिलषन्ती रोषादिव [^२]शम्बरद्विषातिमात्रमायास्यते राजपुत्री । सोऽयमर्थो विदितभावया मया स्वमात्रे, तया च
 
पदचन्द्रिका ।
 
व्यासक्तः । अतिचित्रमनेकप्रकारम् । विहृतान्ते खेलनान्ते । अपाङ्गं नेत्रप्रान्तम् । सापदेशं सव्याजम् । 'अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि' इति विश्वः । अहमिति । अनङ्गविह्वलो मदनव्याकुलः । अनुभावितोऽस्मि । अनुभवविषयीकृत इत्यर्थः । अंसं स्कन्धम् । अंसेन स्कन्धेन । प्रणयपेशलं प्रीतिसुन्दरम् । भूयासम् । भविष्य इत्यर्थः । तदक्तनेत्रयाञ्जनाक्तनेत्रया । तया चन्द्रसेनया । आज्ञाकरः सेवकजनः । अत्यर्थमत्यन्तम् । अन्यथापि मनुष्यस्य वानरीकरणं विनापि । अद्येति । अपहसित उपहासं प्रापितो मनोभवाकारो मदनशरीरं येनेति । शम्बरद्विषा कामेन । अतिमात्रं निर्भरम् । 'अतिमात्रोद्गाढनिर्भरम्' इत्य-
 
[^१]G. 'अवहसित',
[^२]G. 'हरद्विषा',