2023-05-18 02:10:48 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २१३
त्थाय निमील्योन्मील्य स्थित्वा गत्वा चैवातिचित्रं पर्यक्रीडत राज-
कन्या । अभिहत्य भूतलाकाशयोरपि क्रीडान्तराणि दर्शनीयान्ये-
केनैव वानेकेनैव कन्दु केनादर्शयत् । चन्द्रसेनादिभिश्च प्रियसखीभिः
सह विहृत्य विहृतान्ते चाभिवन्द्य देवीं मनसा मे सानुरागेणेव
परिजनेन चानुगम्यमाना, कुवलयशरमिव कुसुमशरस्य मय्यपाङ्गं
समर्पयन्ती, सापदेशमसकृदावर्त्यमानवदनचन्द्रमण्डलतया स्वहृ-
दयमिव मत्समीपे प्रेरितं प्रतिनिवृत्तं न वेत्यालोकयन्ती, सह
सखीभिः कुमारीपुरमगमत् ।
अहं चानङ्गविह्वलः स्ववेश्म गत्वा कोशदासेन यत्नवदत्युदारं
स्नानभोजनादिकमनुभावितोऽस्मि । सायं चोपसृत्य चन्द्रसेना
रहसि मां प्रणिपत्य पत्युरंसमंसेन प्रणयपेशलमाघट्टयन्त्युपावि-
शत् । आचष्ट च हृष्टः कोशदासः -- 'भूयासमेवं यावदायुराय-
ताक्षि, त्वत्प्रसादस्य पात्रम्' इति । मया तु सस्मितमभिहितम् -
'सखे' किमेतदाशास्यम् । अस्ति किंचिद॒ञ्जनम् । अनया तदुक्त-
नेत्रया राजसूनुरुपस्थितो वानरीमिवैनां द्रक्ष्यति, विरक्तश्चैनां
पुनस्त्यक्ष्यति' इति । तया तु स्मेरयास्मि कथितः – 'सोऽयमार्ये-
णाज्ञाकरो जनोऽत्यर्थमनुगृहीतः, यद॒स्मिन्नेव जन्मनि मानुषं
वपुरपनीय वानरीकरिष्यते । तदास्तामिदम् । अन्यथापि सिद्धं
नः समीहितम् । अद्य खलु कन्दुकोत्सवे भवन्तम॑पहसितमनो-
भवाकारमभिलषन्ती रोषादिव शंम्बरद्विषातिमात्रमायास्यते राज
पुत्री । सोऽयमर्थो विदितभावया मया स्वमात्रे, तया च
पदचन्द्रिका ।
व्यासक्तः । अतिचित्रमनेकप्रकारम् । विहृतान्ते खेलनान्ते । अपाङ्गं नेत्रप्रान्तम् ।
सापदेशं सव्याजम् । 'अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि' इति विश्वः ।
अहमिति । अनङ्गविहलो मदनव्याकुलः । अनुभावितोऽस्मि । अनु-
भवविषयीकृत इत्यर्थः । अंसं स्कन्धम् । अंसेन स्कन्धेन । प्रणयपेशलं प्रीतिसुन्द-
रम् । भूयासम् । भविष्य इत्यर्थः । तदक्तनेत्रयाञ्जनाक्तनेत्रया । तया चन्द्रसेनया ।
आज्ञाकरः सेवकजनः । अत्यर्थमत्यन्तम् । अन्यथापि मनुष्यस्य वानरीकरणं
विनापि । अद्येति । अपहसित उपहास प्रापितो मनोभवाकारो मदनशरीरं
येनेति । शम्बरद्विषा कामेन । अतिमात्रं निर्भरम् । 'अतिमात्रोद्गाढनिर्भरम्' इत्य-
पाठा० - १ 'अवहसित', २ 'हरद्विषा',