2023-09-01 12:49:07 by Lakshmainarayana achar

This page has been fully proofread twice.

पञ्चबाणबाणान्युगपदिवाभिपततस्त्रासेनावघट्टयन्ती, गोमूत्रिकाप्रचारेषु घनदर्शितरागविभ्रमा विद्युल्लतामिव विडम्बयन्ती, भूषणमणिरणितदत्तलयसंवादिपादचारम्, अपदेशस्मितप्रभानिषिक्तबिम्बाधरम्,अंसस्रंसितप्रतिसमाहितशि-खण्डभारम्, [^१]समाघट्टितक्वणितरत्नमेखलागुणम्, अञ्चितोत्थित- पृथु [^२]नितम्बविलम्बिविचलदंशुकोज्ज्वलम्, आकुञ्चितप्रसृत- वेल्लितभुजलताभिहतललितकन्दुकम्, आवर्जितबाहुपाशम्, उपरिपरिवर्तितत्रिकविलग्नलोलकुन्तम् अवगलितकर्ण-
पूरकनकपत्रप्रतिसमाधानशीघ्रतानतिक्रमितप्रकृतक्रीडम्, असकृदुत्क्षिप्यमाणहस्तपादबाह्याभ्यन्तरभ्रान्तकन्दुकम्, अवनमनोन्नमननैरन्तर्थनष्टदृष्टमध्ययष्टिकम्, अवपतनोत्पतननि
[^३]र्व्यवस्थमुक्ताहारम्,अङ्कुरितघर्मसलिलदूषितकपोलपत्रभङ्ग-शोषणाधिकृतश्रवणपल्लवानिलम्,आगलितस्तनतटांशुकनियमन-व्यापृतैकपाणिपल्लवं च निषद्यो-
 
पदचन्द्रिका ।
 
पञ्चबिन्दुरुदाहृतः' इति । पञ्चबाणो मदनः । गोमूत्रिका प्रचारेषु । 'गोमूत्रिकेति विद्वद्भिश्चारः शातह्रदो मतः' इति च । घनदर्शितमतिमात्रदर्शितम्, मेघदर्शितं वा । विभ्रमः स्फुरणम् । विडम्बयन्त्यनुकुर्वती । रणितं शब्दितम् । त्रिकम् ।
'त्रिकं कृकाटिकायां च पृष्ठवंशाधरेऽपि च' इति वैजयन्ती । अङ्कुरितमीषत्प्रादुर्भूतम् । घर्मसलिलं घर्मोदकम् । अधिकृतोऽधिकारीकृतः । श्रवणपल्लवः कर्णावतंसपल्लवः । स्तनतटांशुकनियमनं कुचतटोपरिगतवस्त्रसमीकरणं तत्र व्यापृतो
 
भूषणा ।
 
न्त्यालोडयन्ती । गोमूत्रिकाप्रचारेषु । 'गोमूत्रिकेति विद्वद्भिश्चारः शातह्रदो मतः' । घनदर्शितमतिमात्रदर्शितं, मेघदर्शितं च । विभ्रमः स्फुरणम् । लयसंवादि लयानुरोधि । अञ्चितं सम्यग्यथा तथोत्थितम् । उन्नतः पृथुर्महान्नितम्बस्तस्य बिम्बं तत्र लम्बितं चेलं वस्त्रं यत्रेत्यर्थः । आघट्टितः समीकृतः । कणितः शब्दवान्मेखला-
गुणो यत्रेत्यर्थः । 'त्रिकं कृकाटिकायां च पृष्ठवंशाधरे त्रिकम्' इति वैजयन्ती । असकृदित्यादि । 'बनेटी' इति लोकप्रसिद्धं क्रीडनकम् । अत्रत्यं पूर्वदृष्टम् ।
 
लघुदीपिका ।
 
पञ्चबिन्दुप्रसृतम् । 'पञ्चावर्तप्रहारस्तु पञ्चबिन्दुरुदाहृतः' गोमूत्रिकाप्रचारेषु । 'गोमूत्रिकेति विद्वद्भिश्चारः शातह्रदः स्मृतः' । घनदर्शितमतिमात्रदर्शितम्, मेघदर्शितं च । विभ्रमः स्फुरणम् । 'त्रिकं कृकाटिकायां च पृष्ठवंशाधरेऽपि च' इति
 
[^१]G. 'आद्यादृतकणितमेखलागुणम्'
[^२]G. 'नितम्बबिम्बलम्बितचेलम्'.
[^३]G. 'विपर्यस्तमुक्ता'.