2023-08-13 10:19:05 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[ षष्ठः
 
पञ्चबाणबाणान्युगपदिवाभिपततस्त्रासेनावघट्टयन्ती, गोमूत्रिकाप्रचा-
रेषु घनदर्शितरागविभ्रमा विद्युल्लतामिव विडम्बयन्ती, भूषणमणिर-
णितदत्तलयसंवादिपादचारम्, अपदेशस्मितप्रभानिषिक्तबिम्बाधरम्,
अंसस्रंसितप्रतिसमाहितशि-खण्डभारम्, सं[^१]समाघट्टितक्वणितरत्नमेख-
लागुणम्, अनिञ्चितोत्थित- पृथु [^२]नितेम्बविलम्बिविचलदंशुकोज्वलम्,
ज्वलम्, आकुञ्चितप्रसृत- वेल्लितभुजलताभिहतललितकन्दुकम्, आवर्जितबाहु-
पाशम्, उपरिपरिवर्तितत्रिक विलग्न लोलकुन्तम् अवगलितकर्ण-

पूरकनकपत्रप्रतिसमाधानशीघ्रतान तिक्रमितप्रकृतक्रीडम्, असकृदु-
त्क्षिप्यमाणहस्तपादबाह्याभ्यन्तर भ्रान्तकन्दुकम्, अवनमनोन्नमन-
नैरन्तर्थनष्टदृष्टमध्ययष्टिकम्, अवपतनोत्पत्तननिर्
[^३]र्व्
यवस्थमुक्ताहारम्,
 
२१२
 
MAN
 
अङ्कुरितधर्मसलिलदूषितकपोलपत्रभङ्ग-शोषणाधिकृतश्रवणपल्लवानि-
लम्,
लम्,आगलितस्तनतटांशुकनियमन-व्यापृतैकपाणिपल्लवं च निषद्यो-

 
पदचन्द्रिका ।
 

 
पञ्चबिन्दुरुदाहृतः' इति । पञ्चबाणो मदनः । गोमूत्रिका प्रचारेषु । 'गोमूत्रिकेति
विद्वद्भिश्चारः शातह्रदो मतः' इति च । घनदर्शितमतिमात्रदर्शितम्, मेघदर्शितं
वा । विभ्रमः स्फुरणम् । विडम्बयन्त्यनुकुर्वती । रणितं शब्दितम् । त्रिकम् ।

'त्रिकं कृकाटिकायां च पृष्ठवंशाधरेऽपि च' इति वैजयन्ती । अङ्कुरितमीषत्प्रा-
दुर्भूतम् । घर्मसलिलं घर्मोदकम् । अधिकृतोऽधिकारीकृतः । श्रवणपल्लवः कर्णा-
वतंसपल्लवः । स्तनतटांशुकनियमनं कुचतटोपरिगतवस्त्र समीकरणं तत्र व्यापृतो
 

 
भूषणा ।
 

 
न्त्यालोडयन्ती । गोमूत्रिकाप्रचारेषु । 'गोमूत्रिकेति विद्वद्भिश्चारः शातह्रदो मतः' ।
घनदर्शितमतिमात्रदर्शितं, मेघदर्शितं च । विभ्रमः स्फुरणम् । लयसंवादि लयानु-
रोधि । अञ्चितं सम्यग्यथा तथोत्थितम् । उन्नतः पृथुर्महान्नितम्बस्तस्य बिम्बं तत्र
लम्बितं चेलं वस्त्रं यत्रेत्यर्थः । आघट्टितः समीकृतः । कणितः शब्दवान्मेखला-

गुणो यत्रेत्यर्थः । 'त्रिकं कृकाटिकायां च पृष्ठवंशाधरे त्रिकम्' इति वैजयन्ती ।
असकृदित्यादि । 'बनेटी' इति लोकप्रसिद्धं क्रीडनकम् । अत्रत्यं पूर्वदृष्टम् ।

 
लघुदीपिका ।
 

 
पञ्चबिन्दुप्रसृतम् । 'पञ्चावर्तप्रहारस्तु पञ्चबिन्दुरुदाहृतः' गोमूत्रिकाप्रचारेषु ।
'गोमूत्रिकेति विद्वद्भिश्चारः शातहृह्रदः स्मृतः' । घनदर्शितमतिमात्रदर्शितम्, मेघ-
दर्शितं च । विभ्रमः स्फुरणम् । 'त्रिकं कृकाटिकायां च पृष्ठवंशाधरेऽपि च' इति
 
पाठा० -

 
[^
]G. 'आद्यादृतकणितमेखलागुणम्'
[^
]G. 'नितम्बबिम्बलम्बितचेलम्'.

[^
]G. 'विपर्यस्तमुक्ता'.