This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ षष्ठः
 
पञ्चबाणबाणान्युगपदिवाभिपततस्त्रासेनावघट्टयन्ती, गोमूत्रिकाप्रचा-
रेषु घनदर्शितरागविभ्रमा विद्युल्लतामिव विडम्बयन्ती, भूषणमणिर-
णितदत्तलयसंवादिपादचारम्, अपदेशस्मितप्रभानिषिक्तबिम्बाधरम्,
अंसस्रंसितप्रतिसमाहितशिखण्डभारम्, संमाघट्टितकणितरत्नमेख-
लागुणम्, अनितोत्थित पृथुनितेम्बविलम्बिविचलदंशुकोज्वलम्,
आकुञ्चितप्रसृत वेल्लितभुजलताभिहतललितकन्दुकम्, आवर्जितबाहु-
पाशम्, उपरिपरिवर्तितत्रिक विलग्न लोलकुन्तम् अवगलितकर्ण-
पूरकनकपत्रप्रतिसमाधानशीघ्रतान तिक्रमितप्रकृतक्रीडम्, असकृदु-
त्क्षिप्यमाणहस्तपादबाह्याभ्यन्तर भ्रान्तकन्दुकम्, अवनमनोन्नमन-
नैरन्तर्थनष्टदृष्टमध्ययष्टिकम्, अवपतनोत्पत्तननिर्यवस्थमुक्ताहारम्,
 
२१२
 
MAN
 
अङ्कुरितधर्मसलिलदूषितकपोलपत्रभङ्गशोषणाधिकृतश्रवणपल्लवानि-
लम्, आगलितस्तनतटांशुकनियमनव्याटतैकपाणिपल्लवं च निषद्यो-
पदचन्द्रिका ।
 
पञ्चबिन्दुरुदाहृतः' इति । पञ्चबाणो मदनः । गोमूत्रिका प्रचारेषु । 'गोमूत्रिकेति
विद्वद्भिश्चारः शातहदो मतः' इति च । घनदर्शितमतिमात्रदर्शितम्, मेघदर्शितं
वा । विभ्रमः स्फुरणम् । विडम्बयन्त्यनुकुर्वती । रणितं शब्दितम् । त्रिकम् ।
'त्रिकं कृकाटिकायां च पृष्ठवंशाधरेऽपि च इति वैजयन्ती । अङ्कुरितमीषत्प्रा-
दुर्भूतम् । घर्मसलिलं घर्मोदकम् । अधिकृतोऽधिकारीकृतः । श्रवणपल्लवः कर्णा-
वतंसपल्लवः । स्तनतटांशुकनियमनं कुचतटोपरिगतवस्त्र समीकरणं तत्र व्याटतो
 
भूषणा ।
 
न्त्यालोडयन्ती । गोमूत्रिकाप्रचारेषु । 'गोमूत्रिकेति विद्वद्भिश्चारः शातहदो मतः' ।
घनदर्शितमतिमात्रदर्शितं, मेघदर्शितं च । विभ्रमः स्फुरणम् । लयसंवादि लयानु-
रोधि । अञ्चितं सम्यग्यथा तथोत्थितम् । उन्नतः पृथुर्महान्नितम्बस्तस्य बिम्बं तत्र
लम्बितं चेलं वस्त्रं यत्रेत्यर्थः । आघट्टितः समीकृतः । कणितः शब्दवान्मेखला-
गुणो यत्रेत्यर्थः । 'त्रिकं कृकाटिकायां च पृष्ठवंशाधरे त्रिकम्' इति वैजयन्ती ।
असकृदित्यादि । 'बनेटी' इति लोकप्रसिद्धं क्रीडनकम् । अत्रत्यं पूर्वदृष्टम् ।
लघुदीपिका ।
 
पञ्चबिन्दुप्रसृतम् । 'पञ्चावर्तप्रहारस्तु पञ्चबिन्दुरुदाहृतः' गोमूत्रिकाप्रचारेषु ।
'गोमूत्रिकेति विद्वद्भिश्चारः शातहृदः स्मृतः' । घनदर्शितमतिमात्रदर्शितम्, मेघ-
दर्शितं च । विभ्रमः स्फुरणम् । 'त्रिकं कृकाटिकायां च पृष्ठवंशाधरेऽपि च इति
 
पाठा० - १ 'आयाइतकणितमेखलागुणम्' २ 'नितम्बबिम्बलम्बितचेलम्'.
३ 'विपर्यस्तमुक्ता'.