2023-09-01 12:49:15 by Lakshmainarayana achar

This page has been fully proofread twice.

तत्क्षणं चूर्णपदमदर्शयत् । प्रशान्तं च तं निर्दयप्रहारैरुदपात-
यत् । विपर्ययेण च प्राशमयत् । पक्षमृज्वागतं च वामदक्षिणा-
भ्यां कराभ्यां पर्यायेणाभिघ्नन्ती शकुन्तमिवोदस्थापयत् । दूरोत्थितं
च प्रपतन्तमाहृत्य गीतमार्ग [^१]मरचयत् । प्रतिदिशं च गमयि-
त्वा [^२]प्रत्यागमयत् । एवमनेककरणमधुरं विहरन्ती रङ्गगतस्य रक्तचेतसो जनस्य प्रतिक्षण [^३]मुच्चावचाः प्रशंसावाचः प्रतिगृह्ण- ती, [^४]प्रतिक्षणारूढविभ्रमं कोशदासमंसेऽवलम्ब्य कण्टकितगण्डमुत्फुल्लेक्षणं च मय्यभिमुखीभूय तिष्ठति तत्प्रथमावतीर्णकंदर्पकारितकटाक्षदृष्टिस्तदनुमार्गविलसित-
लीलाञ्चितचलता, श्वासानिलवेगान्दोलितैर्दन्तच्छद- रश्मिजालैर्लीलापल्लवैरिव मुखकमलपरिमलग्रहणलोला-
नलिनस्ताडयन्ती, मण्डल भ्रमणेषु कन्दुकस्यातिशीघ्रप्रचारितया विशन्तीव मद्दर्शनलज्जया पुष्पमयं पञ्जरम्, पञ्चबिन्दुप्रसृतेषु पञ्चापि
 
पदचन्द्रिका ।
 
मृदु कोमलम् । अमृदु च कठिनम् । चूर्णपदम् । 'गत्यागत्योरानुलोम्येन न्यूनाधिक्यक्षेपणं तच्चूर्णपदम्' इति कन्दुकतन्त्रे । प्रशान्तं शिथिलम् । तम् । कन्दुकमित्यर्थः । उदपातयदुत्थितमकरोत् । शकुन्तः पक्षी । गीतमार्गम् । 'दशपद-
चङ्क्रमणं गीतमार्गं विदुः' इति कन्दुकतन्त्रे । अनेककरणमधुरमनेकव्यापाररम्यम् । उच्चावचाः स्थूलसूक्ष्माः । प्रशंसावाचः स्तुतिवचनानि । प्रतिक्षणारूढविभ्रमः
प्रतिक्षणमारूढ उत्पन्नो विभ्रमो विलासो यस्येति तथा । कण्टकितं रोमाञ्चितम् । तिष्ठति सतीति सतिसप्तमी । तत्प्रथमं तदेव प्रथममवतीर्ण आगतो यः कन्दर्पः कामस्तेन कारिता कटाक्षदृष्टिर्यस्याः सेति तथा । तदनुमार्गे कन्दुकानुमार्गे । विल-
सितस्य खेलनस्य । अनिलवेगो वायुवेगः । पञ्चबिन्दुप्रसृतेषु । 'पञ्चावर्तप्रहारस्तु
 
भूषणा ।
 
यामानम्' इत्यमरः । चूर्णपदम् । 'गत्यागत्योरानुलोम्यतो यन्न्यूनाधिक्यक्षेपण' मिति । गीतमार्गमारचयत् । दशपदचङ्क्रमणं तु गीतमार्गः । एवमनेककरणमधुरमनेकव्यापाररम्यम् । उच्चावचमनेकभेदम् । 'उच्चावचं नैकभेदम्' इत्यमरः । अवघट्टय-
 
लघुदीपिका ।
 
'गत्यागत्योरानुलोम्यतो यन्न्यूनाधिक्यक्षेपणं चूर्णपद' मिति कन्दुकतन्त्रे । गीतमार्गमारचयत् । दशपदचङ्क्रमणं तु गीतमार्गः । अनेककरणमधुरमनेकव्यापाररम्यम् ।
 
[^१]G. 'आचरत्'.
[^२]G. 'प्रत्यागमत्'.
[^३]G. 'उच्चावचम्'
[^४]G. 'तत्क्षणारूढविश्रम्भम् .