2023-08-13 10:02:19 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
तत्क्षणं चूर्णपदमदर्शयत् । प्रशान्तं च तं निर्दयप्रहारैरुदपात-

यत् । विपर्ययेण च प्राशमयत् । पक्षमृज्वागतं च वामदक्षिणा-

भ्यां कराभ्यां पर्यायेणाभिन्घ्नन्ती शकुन्तमिवोदस्थापयत् । दूरोत्थितं

च प्रपतन्तमाहृत्य गीतमार्गमो [^१]मरचयत् । प्रतिदिशं च गमयि-

त्वा [^२]प्रत्यागमयत् । एवमनेककरणमधुरं विहरन्ती रङ्गगतस्य रक्त-
चेतसो जनस्य प्रतिक्षण [^३]मुच्चावचाः प्रशंसावाचः प्रतिगृह्ण- ती,
[^४]प्रतिक्षणारूढविभ्रमं कोशदासमंसेऽवलम्ब्य कण्टकितगण्डमुत्फुल्ले-
क्षणं च मय्यभिमुखीभूय तिष्ठति तत्प्रथमावतीर्णकंदर्पकारितकटा-
क्षदृष्टिस्तदनुमार्गविलसित-
लीलाञ्चितचलता, श्वासानिलवेगान्दोलि-
तैर्दन्तच्छद- रश्मिजालैर्लीलापल्लवैरिव मुखकमलपरिमलग्रहणलोला-

नलिनस्ताडयन्ती, मण्डल भ्रमणेषु कन्दुकस्यातिशीघ्रप्रचारितया विश-
न्तीव मद्दर्शनलज्जया पुष्पमयं पञ्जरम्, पञ्चबिन्दुप्रसृतेषु पञ्चापि
 
२११
 

 
पदचन्द्रिका ।
 

 
मृदु कोमलम् । अमृदु च कठिनम् । चूर्णपदम् । 'गत्यागत्योरानुलोम्येन न्यूना-
धिक्यक्षेपणं तच्चूर्णपदम्' इति कन्दुकतन्त्रे । प्रशान्तं शिथिलम् । तम् । कन्दु-
कमित्यर्थः । उदपातयदुत्थितमकरोत् । शकुन्तः पक्षी । गीतमार्गम् । 'दशपद-

चङ्क्रमणं गीतमार्गं विदुः' इति कन्दुकतन्त्रे । अनेककरणमधुरमनेकव्यापाररम्यम् ।
उच्चावचाः स्थूलसूक्ष्माः । प्रशंसावाचः स्तुतिवचनानि । प्रतिक्षणारूढविभ्रमः

प्रतिक्षणमारूढ उत्पन्नो विभ्रमो विलासो यस्येति तथा । कण्टकितं रोमाञ्चितम् ।
तिष्ठति सतीति सतिसप्तमी । तत्प्रथमं तदेव प्रथममवतीर्ण आगतो यः कन्दर्पः
कामस्तेन कारिता कटाक्षदृष्टिर्यस्याः सेति तथा । तदनुमार्गे कन्दुकानुमार्गे । विल-

सितस्य खेलनस्य । अनिलवेगो वायुवेगः । पञ्चबिन्दुप्रसृतेषु । 'पञ्चावर्तप्रहारस्तु
 
-
 

 
भूषणा ।
 

 
यामानम्' इत्यमरः । चूर्णपदम् । 'गत्यागल्त्योरानुलोम्यतो यन्न्यूनाधिक्यक्षेपण' मिति ।
गीतमार्गमारचयत् । दशपदचङ्क्रमणं तु गीतमार्गः । एवमनेककरणमधुरमनेकल्व्या-
पाररम्यम् । उच्चावचमनेकभेदम् । 'उच्चावचं नैकमेभेदम्' इत्यमरः । अवघट्टय-

 
लघुदीपिका ।
 

 
'गत्यागत्योरानुलोम्यतो यन्न्यूनाधिक्यक्षेपणं चूर्णपद' मिति कन्दुकतन्त्रे । गीतमार्ग-
मारचयत् । दशपदचङ्क्रमणं तु गीतमार्गः । अनेककरणमधुरमने कव्यापाररम्यम् ।
 
पाठा०-

 
[^
]G. 'आचरत्'.
[^
]G. 'प्रत्यागमत्'.
[^
]G. 'उच्चावचम्'
[^
]G. 'तत्क्षणारूढ-
विश्रम्भम् .
 
400