2023-09-01 12:49:23 by Lakshmainarayana achar

This page has been fully proofread twice.

मयान्येन वान्तराले दृष्टा । चित्रीयाविष्टचित्तश्चाचिन्तयम्-
'किमियं लक्ष्मीः, नहि नहि । तस्याः किल हस्ते विन्यस्तं कमलम्,
अस्यास्तु हस्त एव कमलम् । [^१]अभुक्तपूर्वा चासौ पुरातनेन
पुंसा पूर्वराजैश्च, अस्याः पुनरनवद्यमयातयामं च यौवनम्' इति
चिन्तयत्येव मयि, सानघसर्वगात्री व्यत्यस्तहस्तपल्लवाग्रस्पृष्ट-
भूमिरालोलनीलकुटिलालका सविभ्रमं भगवतीमभिवन्द्य कन्दुकम-
मन्दरागरूषिताक्षमनङ्गमिवालम्बत । लीलाशिथिलं च भूमौ मुक्त-
वती । मन्दोत्थितं च किंचित्कुञ्चिताङ्गुष्ठेन प्रसृतकोमलाङ्गुलिना
पाणिपल्लवेन समाहत्य हस्तपृष्ठेन चोन्नीय, चटुलदृष्टिलाञ्छितं
स्तबकमिव भ्रमरमालानुविद्धमवपतन्तमाकाश एवाग्रहीत् ।
अमुञ्चच्च । [^२]मध्यविलम्बितलये द्रुतलये [^३]मृदुमृदु च प्रहरन्ती
 
पदचन्द्रिका ।
 
चित्रीयाविष्टचित्तः । 'चित्रीया विस्मयोऽद्भुतम्' इति कोशः । अभुक्तपूर्वा पूर्वं न भुक्ता । अयातयामम् । अजीर्णमित्यर्थः । अपरिभुक्तमिति यावत् । 'यातयामं गतरसम्' इति भगवद्गीता । 'जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्' इति कोशः । अनघं निर्दोषम् । व्यत्यस्तौ परावर्तितौ । नीलाः श्यामाः । कुटिला वक्राः । अलका चूर्णकुन्तलाः । अमन्दं वर्धमानम् । लीला विलासः ।
शिथिलं श्लथम् । मन्दं निश्चलम् । कुञ्चितो वक्रितः । चटुलश्चञ्चलः । स्तबको गुच्छः । भ्रमरमाला भ्रमरपङ्क्ति: । आकाश एव मध्य एव । मध्यविलम्बितं मध्ये विलम्बितम् । द्रुतं लयः पतनं यत्रेति तस्मिन्सतीति सतिसप्तमी ।
 
भूषणा ।
 
विस्मयाविष्टचित्तः । 'विस्मयोऽद्भुतमाश्चर्यं चित्रम्' इत्यमरः । चित्रीया 'नमोवरिवस्- ' ( ६।१।१९ ) इति क्यजन्तात् 'अ प्रत्ययात्' ( ३। ३।१०२ ) इत्यप्रत्ययः स्त्रियाम् । किमियमित्याद्याक्षेपालंकारः । 'आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात्' इति लक्षणात् । अयातयाममपरिभुक्तम् । 'जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ।' रूषिताक्षं रञ्जितम् । 'रूष हिंसायाम्' । विलम्बि-
तद्रुतमध्यलये । 'विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् । तालः कालक्रि-
 
लघुदीपिका ।
 
दगच्छत् । चित्रीयाविष्टचित्तो विस्मयाविष्टचित्तः । 'चित्रीयो विस्मयोऽद्भुतम्' । अयातयाममपरिभुक्तम् । 'जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ।' चूर्णपदी
 
[^१]G. 'भुक्तपूर्वा च सा'.
[^२]G. 'विलम्बितद्रुतमध्यलये'.
[^३]G. 'मृद्वमृदु च'.