This page has not been fully proofread.

२१०
 
दशकुमारचरितम् ।
 
,
 
मयान्येन वान्तराले दृष्टा । चित्रीयाविष्टचित्तश्चाचिन्तयम्-
'किमियं लक्ष्मीः, नहि नहि । तस्याः किल हस्ते विन्यस्तं कमलम्,
अस्यास्तु हस्त एव कमलम् । अंभुक्तपूर्वा चासौ पुरातनेन
पुंसा पूर्वराजैच, अस्याः पुनरनवद्यमयातयामं च यौवनम्' इति
चिन्तयत्येव मयि, सानघसर्वगात्री व्यत्यस्तहस्तपल्लवाग्रस्पृष्ट-
भूमिरालोलनीलकुटिलालका सविभ्रमं भगवतीमभिवन्द्य कन्दुकम-
मन्दरागरूषिताक्षमनङ्गमिवालम्बत । लीलाशिथिलं च भूमौ मुक्त-
वती । मन्दोत्थितं च किंचित्कुञ्चिताङ्गुष्ठेन प्रसृतकोमलाङ्गुलिना
पाणिपल्लवेन समाहत्य हस्तपृष्ठेन चोन्नीय, चटुलदृष्टिलान्छितं
स्तबकमिव भ्रमरमालानुविद्धमवपतन्तमाकाश एवाग्रहीत् ।
अमुञ्चच्च । मैध्यविलम्बितलये द्रुतलये मृदुमृदु च प्रहरन्ती
 
[ षष्ठः
 
पदचन्द्रिका ।
 

 
:।
 
चित्रीयाविष्टचित्तः । 'चित्रीया विस्मयोऽद्भुतम्' इति कोशः । अभुक्तपूर्वा पूर्व
न भुक्ता । अयातयामम् । अजीर्णमित्यर्थः । अपरिभुक्तमिति यावत् । 'यातयामं
गतरसम्' इति भगवद्गीता । 'जीर्ण च परिभुक्तं च यातयाममिदं द्वयम्'
इति कोशः । अनघं निर्दोषम् । व्यत्यस्तौ परावर्तितौ । नीलाः श्यामाः ।
कुटिला वक्राः । अलका चूर्णकुन्तलाः । अमन्दं वर्धमानम् । लीला विलासः ।
शिथिलं श्लथम् । मन्दं निचलम् । कुञ्चितो वक्रितः । चटुलश्चञ्चलः ।
स्तबको गुच्छः । भ्रमरमाला भ्रमरपङ्किः । आकाश एव मध्य एव । मध्यविल-
म्बितं मध्ये विलम्बितम् । द्रुतं लयः पतनं यत्रेति तस्मिन्सतीति सतिसप्तमी ।
 

 
भूषणा ।
 
विस्मयाविष्टचित्तः । 'विस्मयोऽद्भुतमाश्चर्य चित्रम्' इत्यमरः । चित्रीया
'नमोवरिवस्- ' ( ६।१।१९ ) इति क्यजन्तात् 'अ प्रत्ययात्' ( ३ । ३ । १०२ )
इत्यप्रत्ययः स्त्रियाम् । किमियमित्याद्याक्षेपालंकारः । 'आक्षेपः स्वयमुक्तस्य
प्रतिषेधो विचारणात्' इति लक्षणात् । अयातयाममपरिभुक्तम् । 'जीर्ण च परि-
भुक्तं च यातयाममिदं द्वयम् ।' रूषिताक्षं रजितम् । 'रूष हिंसायाम्' । विलम्बि-
तद्रुतमध्यलये । 'विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् । तालः कालक्रि-
लघुदीपिका ।
 
दुगच्छत् । चित्रीयाविष्टचित्तो विस्मयाविष्टचित्तः । 'चित्रीयो विस्मयोऽद्भुतम्' ।
अयातयाममपरिभुक्तम् । 'जीर्ण च परिभुक्तं च यातयाममिदं द्वयम् । चूर्णपदी
पाठा०- १ 'भुक्तपूर्वा च सा'. २ 'विलम्बितद्रुतमध्यलये'. ३ 'मृद्धमृदु च'.