2023-09-01 12:49:33 by Lakshmainarayana achar

This page has been fully proofread twice.

निष्प्रतिक्रियान्प्राणान्' इति । सा तु पर्यश्रुमुखी समभ्यधात् – ' मा स्म नाथ, मत्कृतेऽध्यवस्यः साहसम् । यस्त्वमुत्तमा-
त्सार्थवाहादर्थदासादुत्पद्य कोशदास इति गुरुभिरभिहितनामधेयः
पुनर्मदत्यासङ्गाद्वेशदास इति द्विषद्भिः प्रख्यापितोऽसि तस्मिंस्त्व-
य्युपरते यद्यहं जीवेयं नृशंसो [^१]वेश इति समर्थयेयं लोकवादम् ।
अतोऽद्यैव नय मामीप्सितं देशम्' इति । स तु मामभ्यधत्त-
'भद्र, भवदृष्टेषु राष्ट्रेषु कतमत्समृद्धं संपन्नसस्यं सत्पुरुषभूयिष्ठं
च ?' इति । तमहमीषद्विहस्याब्रवम् – 'भद्र, विस्तीर्णेयमर्णवाम्बरा ।
न पर्यन्तोऽस्ति स्थानस्थानेषु रम्याणां जनपदानाम्। अपि
तु न चेदिह युवयोः सुखनिवासकारणं कमप्युपायमुत्पादयितुं
शक्नुयां ततोऽहमेव भवेयमध्वदर्शी' । तावतोदैरत रणितानि
मणिनूपुराणाम् । अथासौ जातसंभ्रमा 'प्राप्तैवेयं भर्तृदारिका
कन्दुकावती कन्दुकक्रीडितेन देवीं विन्ध्यवासिनीमाराधयितुम् ।
अनिषिद्धदर्शना चेयमस्मिन्कन्दुकोत्सवे । सफलमस्तु युष्मच्चक्षुः ।
आगच्छतं द्रष्टुम् । अहमस्याः सकाशवर्तिनी भवेयम्' इत्यया-
सीत् । तामन्वयाव चावाम् । महति रत्नरङ्गपीठे स्थितां प्रथमं
ताम्रोष्ठीमपश्यम् । अतिष्ठच्च सा सद्य एव मम हृदये । न
 
पदचन्द्रिका ।
 
निष्प्रतिक्रियान्निष्प्रतीकारान् । सा त्विति । पर्यश्रुमुखी परिगतान्यश्रूणि यस्मिन्निति । द्विषद्भिः । कैश्चिदित्यर्थः । उपरते मृते । नृशंसो घातुकः । वेशो वेषः । ईप्सितमिष्टम् । भवदृष्टेषु त्वया दृष्टेषु । संपन्नसस्यं प्रचुरधान्यम् । ईषदल्पम् । अर्णवाम्बरा समुद्रवसना । पर्यन्तः समाप्तिः । स्थानस्थानेषु स्थलस्थलेषु । जनपदानां देशानाम् । 'नीवृज्जनपदो देशः' इत्यमरः ।
अध्वदर्शी मार्गोपदेष्टा । तावता । तत्कालेनेत्यर्थः । उदैरत । उत्पन्नानीत्यर्थः। रणितानि शब्दितानि । अथेति । असौ नायिका । भर्तृदारिका राजकन्यका । अनिषिद्धदर्शनाऽप्रतिहतदर्शना । सकाशं समीपम् । आवामिति द्विवचनम् । ताम्रोष्ठीमारक्ताधराम् । अतिष्ठत् । अवर्ततेत्यर्थः ।
 
भूषणा ।
 
धात्रेयिका । धात्र्युपमाता तत्कन्या धात्रेयिका । 'स्त्रीभ्यो ढक्' (४।१।२० ) सुदृष्टं सम्यग्दृष्टम् । निष्प्रतिक्रियाञ्जीवनोपायान्तरशून्यान् । वेशजनो वेश्याजनः । उदैरतोदगच्छन् । आगच्छतम् ।द्विवचनमेतत् । चित्रीयाविष्टचित्तो
 
 
 
[^१]G. 'वेशजन:'.