2023-08-13 09:38:59 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वास: ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
२०९
 
निष्प्रतिक्रियान्प्राणान्' इति । सा तु पर्यश्रुमुखी समभ्य-
धात् – ' मा स्म नाथ, मत्कृतेऽध्यवस्यः साहसम् । यस्त्वमुत्तमा-

त्सार्थवाहादर्थदासादुत्पद्य कोशदास इति गुरुभिरभिहितनामधेयः

पुनर्मदत्यासङ्गाद्वेशदास इति द्विषद्भिः प्रख्यापितोऽसि तस्मिंस्त्व-
व्

य्
युपते यद्यहं जीवेयं नृशंसो [^१]वेशं इति समर्थयेयं लोकवादम् ।

अतोऽद्यैव नय मामीप्सितं देशम्' इति । स तु मामभ्यधत्त-

'भद्र, भवदृष्टेपुषु राष्ट्रेषु कतमत्समृद्धं संपन्नसस्यं सत्पुरुषभूयिष्ठं

च ?' इति । तमहमीषद्विहस्याब्रवम् – 'भद्र, विस्तीर्णेय मर्णवाम्बरा ।

न पर्यन्तोऽस्ति स्थानस्थानेषु रम्याणां जनपदानाम्
 
अपि

तु न चेदिह युवयोः सुखनिवासकारणं कमप्युपायमुत्पादयितुं

शक्नुयां ततोऽहमेव भवेयमध्वदर्शी' । तावतोदैरत रणितानि

मणिनूपुराणाम् । अथासौ जातसंभ्रमा 'प्राप्तैवेयं भर्तृदारिका

कन्दुकावती कन्दुकक्रीडितेन देवीं विन्ध्यवासिनीमाराधयितुम् ।

अनिषिद्धदर्शना चेयमस्मिन्कन्दुकोत्सवे । सफलमस्तु युष्मच्चक्षुः ।

आगच्छतं द्रष्टुम् । अहमस्याः सकाशवर्तिनी भवेयम्' इत्यया-

सीत् । तामन्वयाव चावाम् । महति रत्नरङ्गपीठे स्थितां प्रथमं

ताम्रोष्ठीमपश्यम् । अतिष्ठच्च सा सद्य एव मम हृदये । न
 

 
पदचन्द्रिका ।

 
निष्प्रतिक्रियान्निष्प्रतीकारान् । सांसा त्विति । पर्यश्रुमुखी परिगतान्यभूश्रूणि
यस्मिन्निति । द्विषद्भिः । कैश्चिदित्यर्थः । उपरते मृते । नृशंसो धाघातुकः ।
वेशो वेषः । ईप्सितमिष्टम् । भवदृष्टेषु त्वया दृष्टेषु । संपन्नसस्यं प्रचुरधान्यम् ।
ईषदल्पम् । अर्णवाम्बरा समुद्रवसना । पर्यन्तः समाप्तिः । स्थानस्थानेषु
स्थलस्थलेषु । जनपदानां देशानाम् । 'नीवृज्जनपदो देशः' इत्यमरः ।

अध्वदर्शी मार्गोपदेष्टा । तावता । तत्कालेनेत्यर्थः । उदैरत । उत्पन्नानीत्यर्थः
रणितानि शब्दितानि । अथेति । असौ नायिका । भर्तृदारिका
राजकन्यका । अनिषिद्धदर्शनाऽप्रतिहतदर्शना । सकाशं समीपम् । आवा-
मिति द्विवचनम् । ताम्रोष्ठीमारक्ताराम् । अतिष्ठत् । अवर्ततेत्यर्थः ।
 

 
भूषणा ।
 

 
धात्रेयिका । धात्र्युपमाता
 
तत्कन्या धात्रेयिका । 'स्त्रीभ्यो ढक्' (४।१२० )
सुदृष्टं सम्यग्दृष्टम् । निष्प्रतिक्रियाञ्जीवनोपायान्तरशून्यान् । वेशजनो वेश्या-
जनः । उदैरतोदगच्छन् । आगच्छतम् । द्विवचनमेतत् । चित्रीयाविष्टचित्तो
 
1
 
पाठा०-

 
 
 
[^
]G. 'वेशजन:'.