2023-09-01 12:49:43 by Lakshmainarayana achar

This page has been fully proofread twice.

नृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु । यं चाभिलषेत्सा-
मुष्मै देया । स चोत्सवः कन्दुकोत्सवनामास्तु' इति । ततोऽल्पी-
यसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैकं पुत्रमसूत । समु-
त्पन्ना चैका दुहिता । साद्य कन्या कन्दुकावती नाम सोमापीडां
देवीं कन्दुकविहारेणा [^१]राधयिष्यति । तस्यास्तु सखी चन्द्रसेना
नाम धात्रेयिका मम प्रियासीत् । सा चैषु दिवसेषु राजपुत्रेण भीमधन्वना बलवदनुरुद्धा । तदहमुत्कण्ठितो मन्मथशर-
शल्यदुःखोद्विग्नचेताः कलेन वीणारवेणात्मानं किंचिदाश्वासयन्वि-
विक्तमध्यासे' इति ।
अस्मिन्नेव च क्षणे किमपि नूपुरक्वणितमुपातिष्ठत् । आगता
च काचिदङ्गना । दृष्ट्वैव स एनामुत्फुल्लदृष्टिरुत्थायो- [^२]पगूढकण्ठश्च तया तत्रैवोपाविशत् । अशंसच्च – 'सैषा मे प्राणसमा, यद्विरहो दहन इव दहति माम् । इदं च मे जीवितमपहरता राजपुत्रेण मृत्युनेव निरुष्मतां नीतः । न च शक्ष्यामि राजसूनुरित्यमुष्मिन्पापमाचरितुम् । अतोऽनयात्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि
 
पदचन्द्रिका ।
 
तन्नामनक्षत्रेषु । कन्दुकनृत्येन कन्दुकवन्नृत्यं तेन । समाराधयतु । आराधनं करोवित्यर्थः । स कन्दुकनामेति ख्यातः । अल्पीयसा अल्पतरेण । मेदिनी नाम राजपत्नी । सोमापीडां देवीं चन्द्रशेखराम् । 'आपीड : शेखरः समौ' इति वैजयन्ती । सा च चन्द्रसेना । राजपुत्रेण भीमधन्वेति नाम्ना । मन्मथः मदनः ।
शरशल्यं बाणशल्यम् । कलेन गम्भीरेण । 'कलो मन्द्रस्तु गम्भीरे' इत्यमरः । विविक्तं विजनम् । अध्यासेऽधिष्ठितोऽस्मि ॥
नूपुरक्वणितं नूपुरशब्दितम् । स वीणावादको युवा । उपगूढकण्ठो व्याप्तकण्ठः । यद्विरहो यस्या विरहः । निरुष्मतां निस्तेजस्त्वम् । राजसूनुरिति राजपुत्र इति
 
भूषणा ।
 
वासिन्या देव्याः । कन्दुकावती । 'मतौ बह्वचोऽनजिरादीनाम् (१०४१ ) इति दीर्घः संज्ञायाम् । सोमापीडां चन्द्रशेखराम् । 'आपीडशेखरौ' इत्यमरः ।
 
लघुदीपिका ।
 
ण्ठितश्चिन्तयानः' इति वैजयन्ती । विन्ध्यवासिन्याः परमेश्वर्याः । सोमापीडां चन्द्रशेखराम्। 'आपीड: शेखरः समौ' इति वैजयन्ती । अपि तु तथापि । उदैरतो-
 
[^१]G. 'आराधयितुमागमिष्यति'.
[^२]G. 'उपगूह्य गाढमुपगूढ'.