2023-08-13 06:41:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२०८
 
दशकुमारचरितम् ।
 
[ षष्ठः
 
नृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु । यं चाभिलषेत्सा-

मुष्मै देया । स चोत्सवः कन्दुकोत्सवनामास्तु' इति । ततोऽल्पी-

यसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैकं पुत्रमसूत । समु-

त्पन्ना चैका दुहिता । साद्य कन्या कन्दुकावती नाम सोमापीडां

देवीं कन्दुकविहारेणा [^१]राधयिष्यति । तस्यास्तु सखी चन्द्रसेना

नाम धात्रेयिका मम प्रियासीत् । सा चैषु दिवसेषु राज-
पुत्रेण भीमधन्वना बलवद्नुरुद्धा । तदहमुत्कण्ठितो मन्मथशर-

शल्यदुःखोद्विग्नचेताः कलेन वीणारवेणात्मानं किंचिदाश्वासयन्वि-

विक्तमध्यासे' इति ।
 

अस्मिन्नेव च क्षणे किमपि नूपुरक्वणितमुपातिष्ठत् । आगता

च काचिदङ्गना । दैदृष्ट्वैव स एनामुत्फुल्लदृष्टिरुत्थायोपै- [^२]पगूढकण्ठश्च
तया तत्रैवोपाविशत् । अशंसच्च – 'सैषा मे प्राणसमा, यद्विर-
हो दहन इव दहति माम् । इदं च मे जीवितमपहरता राज-
पुत्रेण मृत्युनेव निरुष्मतां नीतः । न च शक्ष्यामि राजसूनुरित्यमु
ष्मिन्पापमाचरितुम् । अतोऽनयात्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि

 
पदचन्द्रिका ।
 

 
तन्नामनक्षत्रेषु । कन्दुकनृत्येन कन्दुकवन्नृत्यं तेन । समाराधयतु । आराधनं
करोवित्यर्थः । स कन्दुकनामेति ख्यातः । अल्पीयसा अल्पतरेण । मेदिनी नाम
राजपत्नी । सोमापीडां देवीं चन्द्रशेखराम् । 'आपीड : शेखरः समौ' इति वैज-
यन्ती । सा च चन्द्रसेना । राजपुत्रेण भीमधन्वेति नाम्ना । मन्मथः मदनः ।

शरशल्यं बाणशल्यम् । कलेन गम्भीरेण । 'कलो मन्द्रस्तु गम्भीरे' इत्यमरः ।
विविक्तं विजनम् । अध्यासेऽधिष्ठितोऽस्मि ॥
 

नूपुरक्णितं नूपुरशब्दितम् । स वीणावादको युवा । उपगूढकण्ठो व्याप्तकण्ठः ।
यद्विरहो यस्या विरहः । निरुष्मतां निस्तेजस्त्वम् । राजसूनुरिति राजपुत्र इति

 
भूषणा ।
 

 
वासिन्या देव्याः । कन्दुकावती । 'मतौ बहुह्वचोऽनजिरादीनाम् (१०४१ ) इति
दीर्घः संज्ञायाम् । सोमापीडां चन्द्रशेखराम् । 'आपीडशेखरौ' इत्यमरः ।

 
लघुदीपिका ।
 

 
ण्ठितश्चिन्तयानः' इति वैजयन्ती । विन्ध्यवासिन्याः परमेश्वर्याः । सोमापीडां चन्द्र-
शेखराम्। 'आपीड: शेखरः समौ' इति वैजयन्ती । अपि तु तथापि । उदैरतो-
पाठा०-

 
[^
]G. 'आराधयितुमागमिष्यति'.
[^
]G. 'उपगूह्य गाढमुपगूढ'.
 
Pag