This page has not been fully proofread.

२०८
 
दशकुमारचरितम् ।
 
[ षष्ठः
 
नृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु । यं चाभिलषेत्सा-
मुष्मै देया । स चोत्सवः कन्दुकोत्सवनामास्तु' इति । ततोऽल्पी-
यसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैकं पुत्रमसूत । समु-
त्पन्ना चैका दुहिता । साद्य कन्या कन्दुकावती नाम सोमापीडां
देवीं कन्दुकविहारेणाराधयिष्यति । तस्यास्तु सखी चन्द्रसेना
नाम धात्रेयिका मम प्रियासीत् । सा चैषु दिवसेषु राज-
पुत्रेण भीमधन्वना बलवद्नुरुद्धा । तदहमुत्कण्ठितो मन्मथशर-
शल्यदुःखोद्विमचेताः कलेन वीणारवेणात्मानं किंचिदाश्वासयन्वि-
विक्तमध्यासे' इति ।
 
अस्मिन्नेव च क्षणे किमपि नूपुरकणितमुपातिष्ठत् । आगता
च काचिदङ्गना । दैव स एनामुत्फुल्लदृष्टिरुत्थायोपैगूढकण्ठश्च
तया तत्रैवोपाविशत् । अशंसच्च – 'सैषा मे प्राणसमा, यद्विर-
हो दहन इव दहति माम् । इदं च मे जीवितमपहरता राज-
पुत्रेण मृत्युनेव निरुष्मतां नीतः । न च शक्ष्यामि राजसूनुरित्यमु
ष्मिन्पापमाचरितुम् । अतोऽनयात्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि
पदचन्द्रिका ।
 
तन्नामनक्षत्रेषु । कन्दुकनृत्येन कन्दुकवन्नृत्यं तेन । समाराधयतु । आराधनं
करोवित्यर्थः । स कन्दुकनामेति ख्यातः । अल्पीयसा अल्पतरेण । मेदिनी नाम
राजपत्नी । सोमापीडां देवीं चन्द्रशेखराम् । 'आपीड : शेखरः समौ इति वैज-
यन्ती । सा च चन्द्रसेना । राजपुत्रेण भीमधन्वेति नाम्ना । मन्मथः मदनः ।
शरशल्यं बाणशल्यम् । कलेन गम्भीरेण । 'कलो मन्द्रस्तु गम्भीरे इत्यमरः ।
विविक्तं विजनम् । अध्यासेऽधिष्ठितोऽस्मि ॥
 
नूपुरक्कणितं नूपुरशब्दितम् । स वीणावादको युवा । उपगूढकण्ठो व्याप्तकण्ठः ।
यद्विरहो यस्या विरहः । निरुष्मतां निस्तेजस्त्वम् । राजसूनुरिति राजपुत्र इति
भूषणा ।
 
वासिन्या देव्याः । कन्दुकावती । 'मतौ बहुचोऽनजिरादीनाम् (१०४१ ) इति
दीर्घः संज्ञायाम् । सोमापीडां चन्द्रशेखराम् । 'आपीडशेखरौ' इत्यमरः ।
लघुदीपिका ।
 
ण्ठितश्चिन्तयानः' इति वैजयन्ती । विन्ध्यवासिन्याः परमेश्वर्याः । सोमापीडां चन्द्र-
शेखराम्। 'आपीड: शेखरः समौ' इति वैजयन्ती । अपि तु तथापि । उदैरतो-
पाठा०- १ 'आराधयितुमागमिष्यति'. २ 'उपगूध गाढमुपगूढ'.
 
Pag