2023-05-20 16:03:34 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दंशकुतत्र हेतिततिहतिश्रान्ता अमारचरितम् ।
 
त्या दैवगत्या[पूर्वपीठिकायां
 
तत्र हेतिततिहतिश्रान्ता अमात्या दैवगत्या
^१]नुत्क्रान्तजीविता

निशान्तवातलब्धसंज्ञाः कथंचिदाश्वस्य राजानं समन्तादन्वीक्ष्या-

नवलोकितन्तो दैन्यवन्तो देवीमवापुः । वसुमती तु तेभ्यो

निखिलसैन्यक्षतिं राज्ञोऽदृश्यत्वं चाकर्ण्योद्विमाग्ना शोकसागरमग्ना रम-
णानुगमने मूर्तिमतिं व्यधत्त । 'कल्याणि, भूरमणमरणमनिश्चितम् ।

किंच दैवज्ञकथितो मथितोद्धतारातिः सार्वभौमोऽभिरामो भविता

सुकुमार: कुमारस्त्वदुदरे वसति । तस्मादद्य तव मरणम-

नुचितम्' इति भूषितभाषितैरमात्यपुरोहितैरनुनीयमानया तया

क्षणं क्षणहीनया तूष्णीमस्थायि । अथार्धरात्रे निद्रानिलीढनेत्रे
 
१०
 

 
तत्रेति । हेतीनामायुधानां ततयः समुदायास्तैर्हतिस्ताडनं प्रहारस्तेन श्रान्ताः ।
'रवेरर्चिश् शस्त्रं च वह्निज्वाला च हेतयः' इत्यमरः । अनुत्क्रान्तेति । नोत्क्रान्तं
जीवितं प्राणा येषां ते । निशाया अन्तोऽवसानं तत्संबन्धिवातेनार्थाच्छीतलेन लब्धा
प्राप्ता संज्ञा यैस्ते । कथंचिन्महतायासेन । आश्वस्य धैर्यावष्टम्भं कृत्वा । समन्तादि-

तस्ततः । अन्वीक्ष्य । 'ईक्ष दर्शने' । दैन्यवन्तो दैन्यं खेदस्तद्वन्तः । अवापुः ।
'आप्लृ व्याप्तौ' । लिट् । निखिलेति । निखिलस्य सर्वस्य सैन्यस्य क्षतिर्नाशस्तम् ।
'क्षणु हिंसायाम्' उद्विग्ना दैन्यपरीता । 'ओविजी भयचलनयोः' । शोकेति ।
शोक एव सागरस्तस्मिन्मग्ना । 'टुमस्जो शुद्धौ' । रमणानुगमने पतिमनु मरणे ।
मर्ति
मतिं व्यघत्त निश्चयं चकार । कल्याणीति । हे कल्याणि । कल्याणलक्षणोपेते

इति यावत् । भूरमणेति । भुवो रमणो वल्लभः । पतिरित्यर्थः । देवस्येति
तात्पर्यम् । अनिश्चितं न निर्णीतम् । किं चेति । किं चापि चान्यच्च । दैवज्ञेन
कार्तान्तिकेन । ज्यौतिषिकेणेत्यर्थः । 'सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि । तेन
कथितः । मथितेति । मथिता मथिष्यमाणा उद्धता धृष्टा अरातयो येन सः ।

सार्वभौमश्चक्रवर्ती । अभिरामो मनोज्ञः । भविता भावी । सुकुमारः पेशलः ।

त्वदिति । तवोदर इत्यर्थः । अनुचितमयुक्तम् । भूषितेति । भूषितं भूषणैराढ्यं
भाषितं भाषणं येषां तैः । भावे कःक्त: । 'तारकादिभ्यः - (५१२१३६ ) इतीतच् ।
अमात्येति । अमात्याश्च पुरोहिताश्च तैः । पुरोहिताः पुरोधसः । 'पुरोधास्तु पुरो-
हितः' इत्यमरः । अनुनीयत इत्यनुनीयमाना तया । क्षणं क्षणपर्यन्तम् । 'काला-

ध्वनो: - ' (२।३।५) इति द्वितीया । क्षण उत्सवस्तेन हीना । 'क्षण उद्धर्षो मह उद्धव
उत्सवः' इत्यमरः । तूष्णीं जोषम् । 'मौने तु तूष्णीम्' इत्यमरः । अस्थायीति ।
'
'ष्ठा गवितिनिवृत्तौ' इत्यस्य कर्मणि लुङो रूपम् । अथानन्तरम् । 'मङ्गलानन्तरार-
म्भप्रश्नकार्येत्स्नेष्वथो अथ' इत्यमरः । अर्धरात्रे निशीथे । 'अर्धरात्रनिशीथौ द्वौ
 
पाठा०-
'
 
[^
]G. 'अप्रत्युत्क्रान्त'.