2023-09-02 16:13:42 by Lakshmainarayana achar

This page has been fully proofread twice.

षष्ठोच्छ्वासः ।
सोऽप्याचचक्षे–देव, सोऽहमपि सुहृत्साधारणभ्रमणकारण: सुह्मेषु [^१]दामलिप्ताह्वयस्य नगरस्य बाह्योद्याने महान्तमुत्सव-
समाजमालोक्यम् । तत्र क्वचि [^२]दतिमुक्तकलतामण्डपे कमपि
वीणावादेनात्मानं विनोदयन्तमुत्कण्ठितं युवानमद्राक्षम् । अप्राक्षं
च - 'भद्र, को नामायमुत्सवः, किमर्थं वा समारब्धः, केन वा
निमित्तेनोत्सवमनादृत्यैकान्ते भवानुत्कण्ठित इव परिवादिनी-द्वितीयस्तिष्ठति ?' इति । सोऽभ्यधत्त - 'सौम्य, सुह्म- पतिस्तुङ्गधन्वनामानपत्यः प्रार्थितवानमुष्मिन्नायतने विस्मृतविन्ध्यवासरागं वसन्त्या विन्ध्यवासिन्याः पादमूलादपत्यद्वयम्' । अनया च किलास्मै प्रतिशयिताय स्वप्ने समादिष्टम् – 'समुत्पत्स्यते तवैकः पुत्रः, जनिष्यते चैका दुहिता । स तु तस्याः पाणिग्राहकमनुजीविष्यति । सा तु सप्तमाद्वर्षादारभ्यापरिणयनात्प्रतिमासं कृत्तिकासु कन्दुक-
 
पदचन्द्रिका ।
 
सोऽपि मित्रगुप्तोऽपि । सुह्येषु देशविशेषेषु । दामलिप्ताह्वयस्य दानलिप्तनाम्ना ख्यातस्य । अतिमुक्तकः पुण्ड्रकः । 'उत्कण्ठितश्चिन्तयानः' इति वैजयन्ती । अद्राक्षं दृष्टवान् । अप्राक्षं च । अवदं चेत्यर्थः । भद्रेति कल्याणवत्संबोधनम् । समारब्धोऽनुष्टितः । अनादृत्य । उपेक्ष्येत्यर्थः । परिवादिनी वीणाभेदः । 'विपञ्ची सा तु
तन्त्रीभिः सप्तभिः परिवादिनी' इत्यमरः । अभ्यधत्त प्रत्युत्तरं दत्तवान् । सौम्येत्याप्ततया वचनसंबोधनम् । तुङ्गधन्वेति नाम्ना ख्यातः । आयतनं देवस्थानम् । विन्ध्यवासिन्याः परमेश्वर्याः । अस्मै तुङ्गधन्वने । प्रतिशयिताय निद्रिताय । समादिष्टमाज्ञप्तम् । समुत्पत्स्यते भविष्यति । तस्या भगिन्याः । पाणिग्राहकं भर्तारम् । आपरिणयनाद्विवाहकालं यावत् । प्रतिमासं मासं प्रतीति तथा । कृत्तिकासु
 
भूषणा ।
 
देव, सुह्मेष्वग्निकोणदिक्स्थेषु । दामलिप्ताह्वयस्य दामलिप्तनामधेयस्य । अतिमुक्तलतामण्डपे । 'अतिमुक्तः पुण्ड्र- कः स्यात्' इत्यमरः । परिवादिनीद्वितीयो वीणासहायः । 'विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी' इत्यमरः । विन्ध्य-
 
लघुदीपिका ।
 
दामलिप्ताह्वयस्य दामलिप्तनामधेयस्य । 'अतिमुक्तः पुण्ड्रकः स्यात्' । उत्क-
 
१ 'दामलिप्ताह्वस्य'.
२ 'अतिमुक्त'.