2023-09-02 16:13:51 by Lakshmainarayana achar

This page has been fully proofread twice.

बाष्पाकुण्ठकण्ठः काष्ठान्याहृत्याग्निं संधुक्ष्य राजमन्दिरद्वारे
चिताधिरोहणायोपक्रमिष्यसे । स तावदेव त्वत्पादयोर्निपत्य सामा-
त्यो नरपतिर [^१]नूनैरर्थैस्त्वामुपच्छन्द्य दुहितरं मह्यं दत्त्वा मद्योग्यतासमाराधितः समस्तमेव राज्यभारं मयि समर्पयिष्यति । सोऽयमभ्युपायोऽनुष्ठेयो यदि तुभ्यं रोचते' इति । सोऽपि पटुर्विटानामग्रणीरसकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तमभ्यधिकं च निपुणमुपक्रान्तवान् । आसीच्च मम समीहि [^२]तानामहीनकालसिद्धिः । अन्वभवं च मधुकर इव नवमालिकामार्द्रसुमनसम् । अस्य राज्ञः सिंहवर्मण: साहाय्यदानं सुहृत्संकेतभूमिगमनमित्युभयमपेक्ष्य सर्वबलसंदोहेन चम्पामिमामुपगतो दैवाद्देवदर्शनसुखमनुभवामि' इति ।
श्रुत्वैतत्प्रमतिचरितं स्मित [^३]मुकुलितमुखनलिनः विलासप्राय-
मूर्जितम्, मृदुप्रायं चेष्टितम्, इष्ट एष मार्ग: प्रज्ञावताम् ।
'अथेदानीमत्रभवान्प्रविशतु' इति मित्रगुप्तमैक्षत क्षितीशपुत्रः ।
 
इति श्रीदण्डिनः कृतौ दशकुमारचरिते प्रमतिचरितं नाम पञ्चम उच्छ्वासः ।
 
पदचन्द्रिका ।
 
ष्ठानि संधुक्ष्य । प्रज्वाल्येत्यर्थः । राजमन्दिरद्वारे राजगृहद्वारे । सामात्यः सप्रधानः । अनूनैः । महामूल्यैरित्यर्थः । अभ्यस्तः प्राप्तः । कपटप्रपञ्चः छलरचना । उपक्रान्तवान् संपादितवान् । अहीनकालसिद्धिरत्युच्चकालसिद्धिः । मधुकर इव भ्रमर इव ।
नवमालिकाम् । मालतीमित्यर्थः । आर्द्रसुमनसं सरसपुष्पम् ॥
मुकुलितं हास्यसंकुचितम् । मुखनलिनं मुखकमलम् । प्रज्ञावतां बुद्धिमताम् । इदानीं प्रमतिचरितश्रवणानन्तरम् । मित्रगुप्तं स्व- चरितख्यापनायैक्षतापश्यदित्यर्थः ॥
 
इति श्रीदशकुमारचरितटीकायां पदचन्द्रिकाभिधायां
पञ्चम उच्छ्वासः ॥
 
भूषणा ।
 
वदे' इत्यमरः । वैलक्ष्यं परं वैक्लव्यमुपेत इत्यन्वयः । समनुनेतुं खेदं दूरीकर्तुम् । चिरस्य बहुकालम् । रुदित्वा क्रन्दनं कृत्वा । मधुकर आर्द्रं सुमनसमिवेयन्वयः । संदोहः समूहः । विलासप्रायं विलासबहुलम् । ऊर्जितमुन्नतम् ॥
 
इति श्रीदशकुमारचरितटीकायां भूषणाभिधायां पञ्चम उच्छ्वासः ॥
 
लघुदीपिका ।
 
क्रन्दनं कृत्वा । संकेतभूमिः सपिण्डनप्रदेशः । 'समये च सपिण्डने च संकेतः' इत्यजयः। संदोहः समूहः । विलासप्रायं विलासबहुलम् । ऊर्जितमुन्नतम् ॥
 
इति लघुदीपिकायां पञ्चम उच्छ्वासः ॥
 
[^१]G. 'रभिमतै'.
[^२]G. 'अचिरकाल'.
[^३]G. 'मुकुलितनयनो'.