2023-08-13 06:05:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[ पञ्चमः
 
बाष्पाकुण्ठकण्ठः काष्ठान्याहृत्याग्निं संधुक्ष्य राजमन्दिरद्वारे

चिताधिरोहणायोपक्रमिष्यसे । स तावदेव त्वत्पादयोर्निपत्य सामा-

त्यो नरपतिर [^१]नूनैरर्यैथैस्त्वामुपच्छन्द्य दुहितरं मह्यं दत्त्वा मद्योग्यता-
समाराधितः समस्तमेव राज्यभारं मयि समर्पयिष्यति । सोऽयम-
भ्युपायोऽनुष्ठेयो यदि तुभ्यं रोचते' इति । सोऽपि पटुर्विंविटानामग्रणी-
रसकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तमभ्यधिकं च निपुण-
मुपक्रान्तवान् । आसीच्च मम समीहि [^२]तानामहीनकालसिद्धिः । अन्व-
भवं च मधुकर इव नवमालिकामार्द्रसुमनसम् । अस्य राज्ञः सिंह-
वर्मण: साहाय्यदानं सुहृत्संकेत भूमिगमन मित्युभयमपेक्ष्य सर्वबल -
संदोहेन चम्पामिमामुपगतो दैवाद्देवदर्शनसुखमनुभवामि' इति ।
 
,
 

श्रुत्वैतत्प्रमतिचरितं स्मित [^३]मुकुलितमुखनलिनः विलासप्राय-

मूर्जितम्, मृदुप्रायं चेष्टितम्, इष्ट ए मार्ग: प्रज्ञावताम् ।

'अथेदानीमत्रभवान्प्रविशतु' इति मित्रगुप्त मैक्षत क्षितीशपुत्रः ।

 
इति श्रीदण्डिनः कृतौ दशकुमारचरिते प्रमतिचरितं नाम पञ्चम उच्छ्रावासः ।

 
पदचन्द्रिका ।
 

 
ष्ठानि संधुक्ष्य । प्रज्वाल्येत्यर्थः । राजमन्दिरद्वारे राजगृहद्वारे । सामात्यः सप्रधानः ।
अनूनैः । महामूल्यैरित्यर्थः । अभ्यस्तः प्राप्तः । कपटप्रपञ्चः छलरचना । उपक्रान्त-
वान् संपादितवान् । अहीनकालसिद्धिरत्युञ्च्चकालसिद्धिः । मधुकर इव भ्रमर इव ।

नवमालिकाम् । मालतीमित्यर्थः । आर्द्रसुमनसं सरसपुष्पम् ॥
 
२०६
 

मुकुलितं हास्यसंकुचितम् । मुखनलिनं मुखकमलम् । प्रज्ञावतां बुद्धिमताम् ।
इदानीं प्रमतिचरितश्रवणानन्तरम् । मित्रगुप्तं खचरितख्यापनायैक्षतापश्यदित्यर्थः ॥

 
इति श्रीदशकुमारचरितटीकायां पदचन्द्रिकाभिधायां

पञ्चम उच्छ्रावासः ॥

 
भूषणा ।
 

 
वदे' इत्यमरः । वैलक्ष्यं परं वैक्लव्यमुपेत इत्यन्वयः । समनुनेतुं खेदं दूरीकर्तुम् ।
चिरस्य बहुकालम् । रुदित्वा क्रन्दनं कृत्वा । मधुकर आर्द्रं सुमनसमिवेयन्वयः ।
संदोहः समूहः । विलासप्रायं विलासबहुलम् । ऊर्जितमुन्नतम् ॥
 
इति श्रीदश-
कुमारचरितटीकायां भूषणाभिधायां पञ्चम उच्छ्वासः ॥

 
लघुदीपिका ।
 

 
क्र
न्दनं कृत्वा । संकेतभूमिः सपिण्डनप्रदेशः । 'समये च सपिण्डने च
संकेतः' इत्यजयः। संदोहः समूहः । विलासप्रायं विलासबहुलम् । ऊर्जितमुन्न-
तम् ॥
 
इति लघुदीपिकायां पञ्चम उच्छ्रावासः ॥
 
पाठा० -

 
[^
]G. 'रभिमतै'.
[^
]G. 'अविस्चिरकाल'.
[^
]G. 'मुकुलितनयनो'.