This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ पञ्चमः
 
बाष्पाकुण्ठकण्ठः काष्ठान्याहृत्याग्निं संधुक्ष्य राजमन्दिरद्वारे
चिताधिरोहणायोपक्रमिष्यसे । स तावदेव त्वत्पादयोर्निपत्य सामा-
त्यो नरपतिरनूनैरर्यैस्त्वामुपच्छन्द्य दुहितरं मह्यं दत्त्वा मद्योग्यता-
समाराधितः समस्तमेव राज्यभारं मयि समर्पयिष्यति । सोऽयम-
भ्युपायोऽनुष्ठेयो यदि तुभ्यं रोचते' इति । सोऽपि पटुर्विंटानामग्रणी-
रसकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तमभ्यधिकं च निपुण-
मुपक्रान्तवान् । आसीच्च मम समीहितानामहीनकालसिद्धिः । अन्व-
भवं च मधुकर इव नवमालिकामासुमनसम् । अस्य राज्ञः सिंह-
वर्मण: साहाय्यदानं सुहृत्संकेत भूमिगमन मित्युभयमपेक्ष्य सर्वबल -
संदोहेन चम्पामिमामुपगतो दैवाद्देवदर्शनसुखमनुभवामि' इति ।
 
,
 
श्रुत्वैतत्प्रमतिचरितं स्मितमुकुलितमुखनलिनः विलासप्राय-
मूर्जितम्, मृदुप्रायं चेष्टितम् इष्ट एप मार्ग: प्रज्ञावताम् ।
'अथेदानीमत्रभवान्प्रविशतु' इति मित्रगुप्त मैक्षत क्षितीशपुत्रः ।
इति श्रीदण्डिनः कृतौ दशकुमारचरिते प्रमतिचरितं नाम पञ्चम उच्छ्रासः ।
पदचन्द्रिका ।
 
ष्ठानि संधुक्ष्य । प्रज्वाल्येत्यर्थः । राजमन्दिरद्वारे राजगृहद्वारे । सामात्यः सप्रधानः ।
अनूनैः । महामूल्यैरित्यर्थः । अभ्यस्तः प्राप्तः । कपटप्रपञ्चः छलरचना । उपक्रान्त-
वान् संपादितवान् । अहीनकालसिद्धिरत्युञ्चकालसिद्धिः । मधुकर इव भ्रमर इव ।
नवमालिकाम् । मालतीमित्यर्थः । आर्द्रसुमनसं सरसपुष्पम् ॥
 
२०६
 
मुकुलितं हास्यसंकुचितम् । मुखनलिनं मुखकमलम् । प्रज्ञावतां बुद्धिमताम् ।
इदानीं प्रमतिचरितश्रवणानन्तरम् । मित्रगुप्तं खचरितख्यापनायैक्षतापश्यदित्यर्थः ॥
इति श्रीदशकुमारचरितटीकायां पदचन्द्रिकाभिधायां
पञ्चम उच्छ्रासः ॥
भूषणा ।
 
वदे' इत्यमरः । वैलक्ष्यं परं वैक्लव्यमुपेत इत्यन्वयः । समनुनेतुं खेदं दूरीकर्तुम् ।
चिरस्य बहुकालम् । रुदित्वा क्रन्दनं कृत्वा । मधुकर आर्द्र सुमनसमिवेयन्वयः ।
संदोहः समूहः । विलासप्रायं विलासबहुलम् । ऊर्जितमुन्नतम् ॥ इति श्रीदश-
कुमारचरितटीकायां भूषणाभिधायां पञ्चम उच्वासः ॥
लघुदीपिका ।
 
ऋन्दनं कृत्वा । संकेतभूमिः सपिण्डनप्रदेशः । 'समये च सपिण्डने च
संकेतः' इत्यजयः। संदोहः समूहः । विलासप्रायं विलासबहुलम् । ऊर्जितमुन्न-
तम् ॥ इति लघुदीपिकायां पञ्चम उच्छ्रासः ॥
 
पाठा० - १ 'रभिमतै'. २ 'अविस्काल'. ३ 'मुकुलितनयनो'.