2023-09-02 16:14:00 by Lakshmainarayana achar

This page has been fully proofread twice.

चतुर्ष्वाम्नायेषु, गृहीती षट्स्वङ्गेषु, आन्वीक्षिकीविचक्षणः, चतु:-
षष्टिकलागमप्रयोगचतुरः, विशेषेण गजरथतुरङ्गतन्त्रवित्, इष्वस-
नास्त्रकर्मणि गदायुद्धे च निरुपमः, पुराणेतिहासकुशलः, कर्ता
काव्यनाटकाख्यायिकानाम्, वेत्ता सोपनिषदोऽर्थशास्त्रस्य, निर्म-
त्सरो गुणेषु, विश्रम्भी सुहृत्सु, [^१]शक्ल:, संविभागशीलः, श्रुत-
धरः, गतस्मयश्च । नास्य दोषमणीयांसमप्युपलभे । न च गुणेष्व-
विद्यमानम् । तन्मादृशस्य ब्राह्मणमात्रस्य न लभ्य एष संबन्धी ।
दुहितरमस्मै समर्प्य वार्धकोचितमन्त्यमाश्रमं संक्रमेयम्, यदि देवः
साधु मन्यते' इति । स इदमाकर्ण्य वैवर्ण्याक्रान्तवक्त्रः परमु-
पेतो वैलक्ष्यमारप्स्यतेऽ [^२]नुनेतुमनित्यतादिसंकीर्तनेनात्रभवन्तं मन्त्रिभिः सह । त्वं तु तेषामदत्तश्रोत्रो मुक्तकण्ठं रुदित्वा चिरस्य
 
पदचन्द्रिका ।
 
च्यते बुधैः' इति । 'अधीती चतुर्ष्वम्नायेषु' इति । 'क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्' (वा. १४८५) इति सप्तमी । आन्वीक्षिकी तर्कविद्या । विचक्षणः कुशलः । आख्यायिका प्रबन्धविशेषः कादम्बरीहर्षचरित्रादिः । 'प्रसृतानाकुलश्रव्यशब्दार्थपदवृत्तिना । गद्येन युक्तोदात्तार्था सोच्छ्वासाख्यायिका मता ॥' इति भीमः । सोपनिषदोऽर्थशास्त्रस्य कर्मज्ञानमीमांसयोः वेत्ता । शक्ल: 'शक्ल: प्रियंवदः प्रोक्तः' इति हलायुधः । विश्रम्भी विश्वासवान् । गतस्मयो गर्वरहितः । अणीयांसमल्पिष्ठम् । वार्धकोचितं वृद्धत्वोचितम् । अन्त्यमाश्रमं संन्यासम् । विवर्णस्य भावो वैवर्ण्यम् । का
 
भूषणा ।
 
'क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्' (वा. १४८५) इति सप्तमी । 'इतिहासः पुरावृत्तम्' । 'आख्यायिकोपलब्धार्था' इत्यमरो द्वयोः । 'प्रसृतानाकुलश्रव्यशब्दार्थपदवृत्तिना। गद्येन युक्तोदात्तार्था सोच्छ्वा- साख्यायिका मता ॥ वृत्तं व्याख्यायते तस्या नायकेनाथ चेष्टितम् ।
वक्त्रं चापरवक्त्रं च काले भाव्यर्थशंसि च ॥ कवेरभिप्रायकृतैरङ्कनैः कैश्चिदाननैः ॥' इति सोपनिषदोऽर्थशास्त्रस्य कर्मज्ञानमीमांसयोः । शक्लः प्रियंवदः । 'शक्लः प्रियं-
 
लघुदीपिका ।
 
न्विषयस्य कर्मण्युपसंख्यानम् (वा. १४८५) इति सप्तमी । आख्यायिका प्रबन्धविशेषः । 'प्रसृतानाकुलश्रव्यशब्दार्थपदवृत्तिना। गद्येन युक्तोदात्तार्था सोच्छ्वासाख्यायिका मता ॥ वृत्तं व्याख्यायते तस्या नायकेनाथ चेष्टितम् । वक्त्रं चापरवक्त्रं च काले
भाव्यर्थशंसि च ॥ कवेरभिप्रायकृतैरङ्कनैः कैश्चिदाननैः ॥ सोपनिषदोऽर्थशास्त्रस्य कर्मज्ञानमीमांसयोः । शक्लः । 'शक्ल: प्रियंवदः प्रोक्तः' इति हलायुधः । विहस्य
 
 
[^१]G. 'शक्तः', 'शक्यः',
[^२]G. 'समनुनेतुम् .
१८ द० कु०