2023-09-02 16:14:15 by Lakshmainarayana achar

This page has been fully proofread twice.

स्थानीयं प्रजानामापन्नशरणमागतोऽस्मि । यदि वृद्धं ब्राह्मणमधीतिनमगतिमतिथिं च मामनुग्राह्यपक्षे गणयत्यादिराजचरितधुर्यो देवः, सैषा भवद्भुजतरुच्छायामखण्डितचारित्रा तावदध्यास्तां
यावदस्याः पाणिग्राहकमानयेयम्' इति । स एवमुक्तो नियतम-
भिमनायमानः स्वदुहितृसंनिधौ मां वासयिष्यति । गतस्तु भवा-
नागामिनि मासि फाल्गुने फल्गुनीषूत्तरासु राजान्तःपुरजनस्य
तीर्थ [^१]यात्रोत्सवो भविष्यति । तीर्थस्थानात्प्राच्यां दिशि गोरुता-
न्तरमतिक्रम्य, वानीरवलयमध्यवर्तिनि कार्तिकेयगृहे करतलगते-
न [^२]शुक्लाम्बरयुगलेन स्थास्यसि । स खल्वहमनभिशङ्क एवैतावन्तंकालं सहाभिविहृत्य राजकन्यया भूयस्तस्मिन्नुत्सवे गङ्गाम्भसि विहरन्विहारव्याकुले कन्यकासमाजे मग्नोपसृतस्त्वद्भ्याश एवोन्मङ्क्ष्यामि । पुनस्त्वदुपहृते वाससी परिधायापनीतदारिकावेषो जामाता नाम भूत्वा त्वामेवानुगच्छेयम् । नृपात्मजा तु मामितस्ततोऽन्विष्यानासादयन्ती 'तया विना न भोक्ष्ये' इति रुदन्त्येवावरोधने स्थास्यति । तन्मूले च महति कोलाहले,
क्रन्दत्सु परिजनेषु, रुदत्सु सखीजनेषु, शोचत्सु पौरजनेषु, किंकर्तव्यतामूढे सामात्ये पार्थिवे, त्वमास्थानीमेत्य मां स्थापयित्वा वक्ष्यसि 'देव स एष मे जामाता तवार्हति श्रीभुजाराधनम् । अधीति
 
पदचन्द्रिका ।
 
हीनानाम् । आपन्नशरणमापन्नानामापत्प्राप्तानां शरणं रक्षकम् । 'शरणं गृहरक्षित्रोः' इत्यमरः । अगति निराश्रयम् । अनुग्राह्यपक्षे कृपास्थानीये। राजचरितधुर्यः । 'धुरो यड्डकौ (४।४।७७) इति यत् । अखण्डितचारित्राऽदूषित कन्यावस्था । पाणिग्राहकं
पाणिग्रहणकर्तारम् । फल्गुनीषूत्तरासु उत्तराफल्गुनीष्वित्यर्थः । अनभिशङ्को निःशङ्कः । अभिविहृत्य क्रीडां कृत्वा । मग्नोपसृतो मग्नः सन्नुपसृतः । त्वदभ्याशे त्वत्समीपे । उन्मङ्क्ष्यामि प्रादुर्भविष्ये । त्वदुपहृते त्वद्दत्ते । अवरोधनं राजान्तःपुरम् । आस्थानीमास्थानम् । अधीती । 'योऽधीतकृत्स्नवेदः स्यात्सोऽधीतीत्यु-
 
भूषणा ।
 
आपन्नानां प्राप्तापत्तीनां शरणं रक्षकम् । 'शरणं गृहरक्षित्रोः' इत्यमरः । प्रजानां मातृपितृस्थानीयं । विग्रहे । अधीती 'इष्टादिभ्यश्च' (५।२।८८ ) इति कर्तरीनिः ।
 
लघुदीपिका ।
 
'शरणं गृहरक्षित्रोः' । 'योऽधीतकृत्स्नवेदः स्यात्सोऽधीतीत्युच्यते बुधै:' । 'क्तस्ये-
 
[^१]G. 'तीर्थयात्रोत्सवे तीर्थस्नानम्।
[^२]G. 'शुल्काम्बर'.